________________
४५० जैनदर्शन में कारण-कार्य व्यवस्था : एक समन्वयात्मक दृष्टिकोण
भवतश्च सा सम्मता भविष्यति, भक्तयो विच्छित्तयरतासामिव चित्रादिषु शिल्पिन्यस्तानाम् । अयमभिप्रायः - चित्रकारादि - शिल्पिजीवपरिगृहीतानां चित्र - लेप्य-काष्ठकर्मानुगतपुद्गलानां या परिणामचित्रता सा विस्रसापरिणतेन्द्रध्नुरादिपुद्गलपरिणामचित्रतायाः सकाशाद् विशिष्टैवेति प्रत्यक्षत एव दृश्यते । अतो जीवपरिगृहीतत्वेन कर्मपुद्गलानामपि सुख - दुःखादिवैचित्र्यजननरूपा विशिष्टतरा परिणामचित्रता कथं न स्यात् ? इति । "
- विशेषावश्यक भाष्य, गाथा १६३१ की टीका
२६५. कारणसरिसं कज्जं बीयस्सेवंकुरो त्ति मण्णंतो।
इह भवसरिसं सव्वं जमवेसि परे वि तमजुत्तं । । - विशेषावश्यक भाष्य, गाथा १७७३ २६६. "यत एव बीजानुरूपं कारणानुगुणं कार्याणां जन्म मतम्, तत एवेह भवाद् भवान्तरे जीवं गृहाण प्रतिपद्यस्व ..... येन यस्माद् नारक - तिर्यगादिरूपेण भवनं भवः स एवाऽकुंर इवांकुरस्तस्य बीजमिह कर्मेवावसेयम्, तच्च मिथ्यात्वाऽविरत्यादिहेतुवैचित्र्याद् विचित्रं यस्माद् मयाऽभिहितम्, तस्मात् तज्जन्यस्य भवांकुरस्यापि जात्यादिभेदेन विचित्रता । ततो यदि त्वया कर्म प्रतिपन्नम्, हेतुवैचित्र्याच्च यदि तद्वैचित्र्यमभ्युपगतम् ततः संसारिणो जीवस्य तत्फलमपि नारक - तिर्यक्मनुष्याऽमररूपेण भवनरूपं सौम्य ! विचित्ररूपं प्रतिपद्यस्वेति । " - विशेषावश्यक भाष्य, गाथा १७७६-१७७८ पर टीका २६७. सततमनुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् ।
तिर्यक्षूष्ण-भय-क्षुत् तृडादिदुःखं सुखं चाल्पम् ।। सुख-दुःखे मनुजानां मनः शरीराश्रये बहुविकल्पे | सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम् ।।
२६८. विशेषावश्यक भाष्य गाथा १९६० की टीका २६९. विशेषावश्यक भाष्य गाथा १६३५ की टीका
२७०. 'यथा बीजेनांऽङ्कुरो जन्यते, अंकुरादपि क्रमेण बीजमुपजायते, एवं देहेन कर्म जन्यते कर्मणा तु देह इत्येवं पुनः पुनरपि परस्परमनादिकालीन
,
हेतुहेतुमद्भावादित्यर्थः । इह ययोरन्योऽन्यं हेतुहेतुमद्भाव - स्तयोरनादिः सन्तानः, यथा बीजांकुर - पितृपुत्रादीनाम्, तथा च देह-कर्मणोः, ततोऽनादिः कर्मसन्तान इति । " - विशेषावश्यक भाष्य गाथा १९३९ की टीका
२७१. विशेषावश्यक भाष्य गाथा १८१५
- विशेषावश्यक भाष्य गाथा १९०० की टीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org