SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ पूर्वकृत कर्मवाद ४४९ २५६. “नन्वत एवात्र समवायिकारणमधिक्रियते, न निमित्तकारणम्, सुख-दुःखादीनां चात्मधर्मत्वादात्मैव समवायिकारणम्, कर्म पुनस्तेषामन्न - पानाऽहिविषादिवद् निमित्तकारणमेवेत्यदोष इति । " -विशेषावश्यक भाष्य, गाथा १६२५ की टीका २५७. " तत्र मूर्त कर्म, तत्संबंधे सुखादि संवित्ते:, इह यत्संबंधे सुखादि संवेद्यते तद् मूर्त दृष्टम्, यथाऽऽशनाद्याहारः यच्चामूर्त न तत्संबंधे सुखादि-संविदस्ति, यथाऽकाशसंबंधे, संवेद्यते च तत्संबन्धे सुखादि, तस्मात् मूर्त कर्मेति।"विशेषावश्यक भाष्य, गाथा १६२६, १६२७की टीका २५८. “यत्संबंधे वेदनोद्भवो भवति तद् मूर्त दृष्टम्, यथाऽनलोऽग्निः भवति च कर्मसंबंधे वेदनोद्भवः, तस्मात् तद् मूर्तमिति ।" - विशेषावश्यक भाष्य, गाथा १६२६, १६२७ की टीका २५९. "मूर्त कर्म, आत्मनो ज्ञानादीनां च तद्धर्माणां व्यतिरिक्तत्वे सति बाह्येन स्रक्चन्दनाऽङ्गनादिना बलस्योपचयस्याधीयमानत्वात्, यथा स्नेहाद्याहितबलो घटः, इह यस्यानात्म-विज्ञानादेः सतो बाह्येन वस्तुना बलमाधीयते तद् मूर्त दृष्टम्, यथा स्नेहादिनाऽऽधीयमानबलो घटः, आधीयते च बाह्यैर्मिथ्यात्वादिहेतुभूतैर्वस्तुभिः कर्मण उपचयलक्षणं बलम् तस्मात् तद् मूर्तमिति । " - विशेषावश्यक भाष्य, गाथा १६२६, १६२७ की टीका , २६०. “मूर्त कर्म, आत्मादिव्यतिरिक्तत्वे सति परिणामित्वात्, क्षीरमिवेति । एवमादीनि तूदाहरणानि कर्मणो रूपित्वगमकानीति ।" - विशेषावश्यक भाष्य, गाथा १६२६, १६२७ की टीका २६१. विशेषावश्यक भाष्य, गाथा १६२८ २६२. "सोऽपि परिणामः सिद्धः कर्मणः 'कज्जाउ त्ति' कर्मकार्यस्य शरीरादेः परिणामित्वदर्शनादित्यर्थः । इह यस्य कार्य परिणाम्युपलभ्यते तस्यात्मनोऽपि परिणामित्वं निश्चीयते, यथा दध्नस्तक्रादिभावेन परिणामात् पयसोऽपि परिणामित्वं विज्ञायत एवेति । " - विशेषावश्यक भाष्य, गाथा १६२८ की टीका २६३. “यथा सकललोकप्रत्यक्षाणाममीषां गन्धर्वपुर- शक्रकोदण्डादीनां बाह्यस्कन्धानां विचित्रता भवतोऽपि सिद्धा, तथा तेनैव प्रकारेणान्तराणामपि कर्मस्कन्धानां पुद्रलमयत्वे समानेऽपि जीवसहितत्वस्य विशेषवतो वैचित्र्यकारणसद्भावेऽपि सुख-दुःखादिजनकरूपतया विचित्रता किमिति नेष्यते ? यदि ह्यभ्रादयो बाह्यपुद्गला नानारूपतया परिणमन्ति, तर्हि जीवैः परिगृहीताः सुतरां ते तथा परिणस्यन्तीति भावः । " - विशेषावश्यक भाष्य, गाथा १६३० की टीका २६४. “यदि हि जीवपरिगृहीतानामपि बाह्यानामभ्रादिपुद्गलानां नानाकारपरिणतिरूपा चित्रता त्वया प्रतिपन्ना, तर्हि जीवानुगतानां कर्म-पुद्रलानां विशेषत एवास्माकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002509
Book TitleJain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Original Sutra AuthorN/A
AuthorShweta Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2007
Total Pages718
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy