SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४४८ जैनदर्शन में कारण-कार्य व्यवस्था : एक समन्वयात्मक दृष्टिकोण २५०. "तयुक्तम्, न ह्यविकलं कारणं स्वकार्य जनयत् कस्याप्याशंसामपेक्षते, किन्त्वविकलकारणतया स्वकार्य जनयत्येव। वस्तुरज्ञातमपि हि कोद्रवादिबीजं क्वचिद् भूप्रदेशे पतितं जलादिसामग्रीसद्भावेऽविकलकारणतां प्राप्त वप्नाशंसाभावेऽपि स्वकार्य जनयत्येव। अविकलकारणभूताश्च कृषि-हिंसादयोऽधर्मजनने। अतस्तत्कर्तृगताशंसा तत्र क्वोपयुज्यते? न च दानादिक्रियायामपि विवेकिनः फलाशंसा कुर्वते, तथाप्यविकलकारणतया विशिष्टतरमेव ता धर्मफलं जनयन्ति।"-विशेषावश्यक भाष्य, गाथा १६२० की टीका २५१. "तस्मात् शुभाया अशुभायाश्च सर्वस्या अपि क्रियाया अदृष्टं शुभाऽशुभं फलमस्त्येवेति प्रतिपत्तव्यम्, अनन्तसंसारिजीवसत्तान्यथानुपपत्तेरिति स्थितम्। इतरथा यदि कृषि- हिंसाधशुभक्रियाणामदृष्टं फलं नाभ्युपगम्येत, तदा ते तत्कर्तारोऽदृष्टफलाभावाद् मरणानन्तरमेव सर्वेऽप्ययत्नेन मुच्येरन्संसारकारणाभावाद् मुक्तिं गच्छेयुः, ततश्च प्रायः शून्य एव संसार: स्यादित्यर्थः। यश्चादृष्टारम्भोऽदृष्टफलानां दानादिक्रियाणां समारम्भः स एव क्लेशबहुल: संसारपरिभ्रमणकारणतया दुरन्तः स्यात्; तथाहि- ते दानादिक्रियानुष्ठातारस्तदनुष्ठानेनादृष्टफलानुबंधं विदध्युः, ततो जन्मान्तरे तद्विपाकमनुभवन्तस्तत्प्रेरिताः पुनरपि दानादिक्रियास्वेव प्रवर्तेरन्, ततो भूयस्तत्फलसंचयात् तद्विपाकानुभूतिः पुनरपि दानादिक्रियारम्भः, इत्येवमनन्तसंततिमयः संसारस्तेषां भवेत्।" -विशेषावश्यक भाष्य, गाथा १६२०-१६२१ की टीका २५२. “यत् कृषि-हिंसाद्यशुभक्रियानुष्ठातृणामदृष्टसंचयाभावे सर्वेषां मुक्तिगमन एकोऽपि तक्रियानुष्ठाता संसारे क्वापि नोपलभ्येत, अशुभतत्फलविपाकानुभविता चैकोऽपि क्वचिदपि न दृश्येत, दानादिशुभक्रियानुष्ठातारः शुभतत्फलविपाकानुभवितार एव च केवला: सर्वत्रोपलभ्येरन्, न चैवं दृश्यते।" -विशेषावश्यक भाष्य, गाथा १६२१ की टीका २५३. “यस्मादनिष्टभोगभाजो बहुतरा भूयांस:-अशुभकर्मविपाकजनितदुःखभाज एव प्राणिनः प्रचुरा इहोपलभ्यन्ते, शुभकर्मविपाकनिबन्धनसुखानुभवितारस्तु स्वल्पा एवेति भावः। तेन तस्मात् कारणात् सौम्य। प्रतिपद्यस्व शुभाऽशुभा वा सर्वाऽपि क्रिया, अदृष्टं शुभाशुभं कर्मरूपमैकान्तिकं फलं यस्याः साऽदृष्टैकान्तिकफलेत्युत्तरगाथायां संबंधः। इदमुक्तं भवति येन दुःखिनोऽत्र बहवः प्राणिनो दृश्यन्ते सुखिनस्तु स्वल्पाः, तेन ज्ञायते- कृषि-वाणिज्य हिंसादिक्रियानिबन्धनाशुभकर्मरूपादृष्टफलविपाको दुःखिनाम्, इतरेषां तु दानादिक्रियाहेतुकशुभकर्म रूपादृष्टफलविपाक इति।" -विशेषावश्यक भाष्य, गाथा १६२२ की टीका २५४. विशेषावश्यक भाष्य, गाथा १६२५ की टीका २५५. विशेषावश्यक भाष्य, गाथा १६२५ की टीका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002509
Book TitleJain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Original Sutra AuthorN/A
AuthorShweta Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2007
Total Pages718
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy