SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ पूर्वकृत कर्मवाद ४४७ २४२. "मनःप्रसादोऽपि क्रियारूप एव, ततश्च यथा दान-कृष्यादिकाः क्रियाः फलवत्यः तथा क्रियासाम्याद् मनः प्रसादस्यापि फलेन भवितव्यमेव, यच्च तस्य फलं तत् कर्मैव, इति न कश्चिद् व्यभिचारः।" -विशेषावश्यक भाष्य, गाथा १६१६ की टीका २४३. "दानादिक्रियैव कर्मणः कारणमुक्ता, अत्र तु मनः प्रसादादिक्रिया तत्कारणमुच्यते, इति कथं न पूर्वापरविरोधः? इति" -विशेषावश्यक भाष्य, गाथा १६१६ की टीका २४४. "सत्यम्, किन्तु मनःप्रसादादिक्रियैवानन्तर्येण कर्मणः कारणम्, केवलं तस्या अपि मनःप्रसादादिक्रियाया दानादिक्रियैव कारणम्, अतः कारणकारणे कारणोपचाराददोष इति।' -विशेषावश्यक भाष्य गाथा १६१६ की टीका २४५. “दानादिक्रियातो मनःप्रसादादयो जायन्ते, तेभ्यश्च प्रवर्धमानदित्सादिपरिणामः पुनरपि दानादिक्रियां करोति, एवं पुनः पुनरपि दानक्रियाप्रवृत्तेः सैव मनप्रसादादेः फलमस्तु, न तु कर्मेति भावः, दृष्टफलमात्रेणैव चरितार्थत्वात् किमदृष्टफलकल्पनेन? इति हृदयम्।" -विशेषावश्यक भाष्य, गाथा १६१७ की टीका, २४६. "यथामृत्पिण्डो घटस्य निमित्त विज्ञेयस्तथा दानादिक्रियापि मनःप्रसत्तेः। दृश्यन्ते हि पात्रदानादिभ्यश्चित्ताहादादयो जायमानाः। न च यद् यस्य निमित्तं तत् तस्यैव फलं वक्तुमुचितम् दूरविरुद्धत्वादिति।" -विशेषावश्यक भाष्य, गाथा १६१७ की टीका २४७. “सा क्रिया सर्वापि तन्मात्रफलैव दृष्टमात्रफलैव युज्यते, नादृष्टफला, यथा दृष्टमांसमात्रफला पशुविनाशक्रिया; न हि पशुविशसनक्रियामदृष्टाधर्मफलार्थ कोऽप्यारभते, किन्तु मांसभक्षणार्थम् अतस्तन्मात्रफलैव सा, तावतैवावसितप्रयोजनत्वात्। एवं दानादिक्रियाया अपि दृष्टमात्रमेव श्लाघादिकं किंचित् फलम्, नान्यदिति।" -विशेषावश्यक भाष्य, गाथा १६१८ की टीका २४८. “कृषि-हिंसादिका दृष्टफलाः क्रिया अदृष्टफला अपि प्रतिपद्यस्वाभ्युपगच्छ। इदमुक्तं भवति यद्यपि कृषि-हिंसादिक्रियाकर्तारो दृष्टफलमात्रार्थमेव ताः समारभन्ते नाधर्मार्थम्, तथापि तेऽधर्मलक्षणं पापरूपमदृष्टफलमश्नुवत एव, अनन्तसंसारिजीवान्यथानुपपत्तेः। ते हि कृषिहिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बवाऽनन्तं संसारं परिभ्रमन्तोऽनन्ता इह तिष्ठन्ति।" -विशेषावश्यक भाष्य, गाथा १६२० की टीका २४९. "ननु दानादिक्रियानुष्ठातृभिर्यददृष्टं धर्मलक्षणं फलमाशंसितं तत् तेषां भवतु, यैस्तु कृषि-हिंसादिक्रियाकर्तृभिरदृष्टमधर्मरूपं फलं नाशंसितं तत् तेषां कथं भवति?" -विशेषावश्यक भाष्य, गाथा १६२० की टीका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002509
Book TitleJain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Original Sutra AuthorN/A
AuthorShweta Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2007
Total Pages718
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy