________________
स्वभाववाद २३१ २१७. तत्त्वसंग्रह, स्वाभाविक जगद्वाद परीक्षा, श्लोक ११२ २१८. सरोजकेसरादीनामन्वयव्यतिरेकवत्।
अवस्थातिशयाक्रान्तं बीजपंकजलादिकम्।। प्रत्यक्षानुपलम्भाभ्यां निश्चितं कारणं यदा। किमित्यन्यस्तदा हेतुरमीषां परिपृच्छयते।।
-तत्त्वसंग्रह स्वाभाविक जगद्वाद, परीक्षा पृ. ६३,कारिका ११३,११४ २१९. यच्चाप्युक्तं कार्यकारणलक्षणं व्यभिचारीति, तदसिद्धम्। स्पर्शस्यापि रूपहेतुतया
चक्षुर्विज्ञानेऽपि निमित्तभावस्येष्टत्वात्। तथाहि-स्पर्श इति भूतान्युच्यन्ते। तानि चोपादायोपादाय रूपं वर्तते, ततश्चक्षुर्विज्ञानं प्रति स्पर्शस्य निमित्तभावोऽस्त्येव। केवलं साक्षात्पारंपर्यकृतो विशेषः।
-तत्त्वसंग्रह, स्वाभाविक जगद्वाद परीक्षा पृ. ६३ २२०. न चापि व्यतिरेकमात्रमस्माभिः कार्यकारणभावनिश्चयहेतुत्वेनाभ्युपगतम्। किं
तर्हि? विशिष्टमेव। तथाहि येषु सत्सु समर्थेषु तदन्येषु हेतुषु यस्यैकस्याभावाद्यन्न भवति तत्तस्य कारणमिति वर्ण्यते। न तु यस्याभावे यन्न भवतीति व्यतिरेकमात्रम्। अन्यथा मातृविवाहोचितदेशजन्मनः पिण्डखजूरस्य मातृविवाहाभावे सत्यभावप्रसङ्गात्। न चैवंभूतस्य व्यतिरेकस्य स्पर्शन व्यभिचारोऽस्ति। तथाहि यदि रूपादिसन्निधानं प्रदर्श्य स्पर्शस्यैकस्याभावाच्चचक्षुर्विज्ञानं न भवतीत्येवं प्रदर्येत तदा स्याद्वयभिचारो न चैतच्छक्यं प्रदर्शयितुम्। अतो नास्ति कार्यकारणभावलक्षणस्य व्याभिचारः।
- तत्त्वसंग्रह, स्वाभाविक जगद्वाद परीक्षा, श्लोक ११३,११४ की पंजिका टीका २२१. तत्त्वसंग्रह,स्वाभाविक जगद्वाद परीक्षा, श्लोक ११५ २२२. 'यदि हि राजीवादीनां तद्धेतुता-प्रतिनियतदेशकालहेतुता न स्यात्,तदा
येयमुपलादिदेशपरिहारेण सलिलादावेव प्रतिनियतदेशे वृत्तिः, या च शिशिरादिसमयपरिहारेण निदाघादिसमये वृतिः,सा न प्राप्नोति। किं तु सर्वत्र देशे काले च ते राजीवादयो भावा भवेयुस्तन्निरपेक्षत्वात् तदन्यदेशकालपरिहारानियमेन प्रतिनियतदेशादौ वर्तमानास्तत्सापेक्षा भवन्तीति निश्चीयते'।
-तत्त्वसंग्रह, स्वाभाविक जगद्वाद परीक्षा,श्लोक ११५,११६ की पंजिका २२३. तत्त्वसंग्रह,स्वाभाविक जगद्वाद परीक्षा, श्लोक ११७ २२४. तदन्यदेशादिपरिहारेण नियते देशादौ या वृत्तिरियमेवापेक्षेत्युच्यते....येयं तथावृत्ति
लक्षणाऽपेक्षा सैव तत्कार्यतोच्यते। सा च तथावृत्तिरेषां कथं सिद्धेति चेदाहप्रत्यक्षेत्यादि। -तत्त्वसंग्रह, स्वाभाविकजगद्वाद परीक्षा,श्लोक११७ की पंजिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org