________________
स्वभाववाद २२९ २०२. यदपि 'कार्यकारणभावलक्षणं व्यभिचारी' इत्युक्तम्, तदपि असिद्धम् स्पर्शस्यापि
रूपहेतुतया चक्षुर्विज्ञाने निमित्ततया इष्टत्वात् तमन्तरेण रूपस्यैव
विशिष्टावस्थस्यासंभवात्। -सन्मति तर्क,३.५३ की टीका,पृ ७१२ २०३. "न च व्यतिरेकमात्रं कार्यकारणभावनिबन्धनत्वेन अभ्युपगम्यते तद्वादिभिः किन्तु
तद्विशेष एव । तथाहि समर्थेषु सत्सु येषु कार्य भवद् उपलब्धम् तेषां मध्ये अन्यतमस्यापि अभावे तद् अभवत् तत्कारणं तद् इति व्यवस्थाप्यते न तु यस्याभावे यन्न भवतीति व्यतिरेकमात्रतः, अन्यथा मातृविवाहोचितपारशीकदेशप्रभवस्य पिण्डरखजूरस्य तद्विवाहाभावे अव्यभिचारः स्यात्। न चैवंभूतस्य व्यतिरेकस्य स्पर्शेन व्यभिचारः न हि रूपादिसंनिधानमुपदर्श्य स्पर्शस्य एकस्याभावात् चक्षुर्विज्ञानं न भवतीति शक्यं दर्शयितुमिति कुतो व्यभिचारः
कार्यकारणभावलक्षणस्य?" -सन्मति तर्क, ३.५३ की टीका पृ ७१२ २०४. नियतौ देशकालौ च भावानां भवतः कथम्।
यदि तद्धेतुता नैषां स्युस्ते सर्वत्र सर्वदा।। क्वचित्कदाचित्कस्मिंश्चिद्भवन्तो नियताः पुनः।
तत्सापेक्षा भवन्त्येते तदन्यपरिहारतः॥ -तत्त्व संग्रह कारिका ११५,११६ २०५. न केवलं बीजादिः कारणत्वेन भावानां निश्चित: किन्तु देश-कालादिरपि। तथाहि
यदि प्रतिनियतदेशकालहेतुता कण्टकादेस्तैक्ष्ण्यादेर्न स्यात् तदा येयमतद्देशकालपरिहारेण प्रतिनियतदेश-कालता तेषामुपलम्भगोचरचारिणी सा न स्यात् तन्निरपेक्षत्वात् तद्वद् अन्यदेशकाला अपि ते भवेयुः न चैवम् अतः प्रतिनियतदेशादौ वर्तमानास्तदपेक्षास्त इति सिद्धम् तथा च तत्कार्या अपेक्षालक्षणत्वात् तत्कार्यत्वस्य नियतदेशतया च तेषां वृत्तिरध्यक्षत एव सिद्धति कथं न तत्कार्यतावगतिः?
-सन्मति तर्क ३.५३ टीका पृ.७१३ २०६. 'ज्ञापको हेतुरिति। त्रिरूपं लिङ्ग. स्वार्थानुमानकाले। वचो वेति।
परार्थानुमानकाले। तत्प्रकाशकमिति। तस्य हेतोः प्रकाशकम्। सिद्धेरिति। प्रमेयार्थनिश्चयस्य। अन्यथा यदि सिद्धेरपि निमित्तभावं न यायात्तदा कथं न ज्ञापकं भवेत्। एंव हि सर्व सर्वस्य ज्ञापकं प्रसज्यते'।
-तत्त्व संग्रह कारिका १२५ की पंजिका २०७. न च ज्ञापकहेतूपन्यासेऽपि कारकहेतुप्रतिक्षेपवादिनो न स्वपक्षबाधा इति
वक्तव्यम् यतो लिङ्गं तत्प्रतिपादकं वा वचो यदि पक्षसिद्धेरुत्पादकं न भवेत् कथं तस्य ज्ञापकहेतुता स्यात् अन्यथा सर्वस्य सर्व प्रति ज्ञापकता प्रसज्येत। न चैवं कारक-ज्ञापकहेत्वोरविशेषः साध्यानुत्पादकस्य ज्ञापकहेत्वात् तदुत्पादकस्य तु कारकहेतुशब्दवाच्यत्वात् अनुमानबाधितत्त्वं च प्रतिज्ञायाः स्पष्टमेव। तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org