SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ स्वभाववाद २२७ स्वभावो भावरूपो वा स्यादभाव रूपो वा ? भावरूपोऽप्येकरूपोऽनेकरूपो वेत्यादि सर्व तदवस्थमेवात्रापि दूषणजालमुपढौकते।- अभिधान राजेन्द्र कोश, भाग-७, पृ.६०४ १८६. यः स्वो भावः स्वभावः, आत्मीयो भाव इत्यर्थः, स च कार्यगतो वा हेतुर्भवेत् कारणगतो वा? न तावत्कार्यगतो, यतः कार्ये परिनिष्पन्ने सति स कार्यगतः स्वभावो भविष्यति, नानिष्पन्ने,निष्पन्ने च कार्ये कथं स तस्य हेतुः? यो हि यस्यालब्धलाभसम्पादनाय प्रभवति स तस्य हेतुः,कार्य च परिनिष्पन्नतया लब्धात्मलाभम्, अन्यथा तस्यैव स्वभावस्याभावप्रसंगात्, ततः कथं स कार्यस्य हेतुर्भवति। - अभिधान राजेन्द्र कोश, भाग-७, पृ.६०४ १८७. कारणगतस्तु स्वभावः कार्यस्य हेतुरस्माकमपि सम्मतः, स च प्रतिकारणं विभिन्नस्तेन मृदः कुम्भो भवति न पटादिः, मृदः पटादिकरणस्वभावाभावात्। तन्तुभ्योऽपि पट एव भवति न घटादिः,तन्तूनां घटादिकरण स्वभावाभावात्। ततो यदुच्यते-'मृदः कुम्भो भवति न पटादि' रित्यादि तत्सर्व कारणगतस्वभावाभ्युपगमे सिद्धसाध्यतामध्ययासीनमिति न नो बाधामादधाति। - अभिधान राजेन्द्र कोश, भाग ७, पृ. ६०४-६०५ १८८. यदपि चोक्तम्-'आस्तामन्यकार्यजातमित्यादि, तदपिकारणगतस्वभावाङ्गीकारेण समीचीनमेवावसेयम् । तथाहि-ते काङ्कटुकमुद्गाः स्वकारणवशतस्तथारूपा एव जाता ये स्थालीन्धनकालादिसामग्रीसम्पर्केऽपि न पाकमश्नुवते इति । स्वभावश्च कारणादभिन्न इति सर्व सकारणमेवेति स्थितम्' - अभिधान राजेन्द्र कोश, भाग ७, पृ. ६०५ १८९. तत्त्वसंग्रह के स्वभाविकजगद्वाद परीक्षा नामक अध्याय में 'स्वत एव भावा जायन्ते' के रूप में इस मत को प्रस्तुत किया गया है। १९०. अत्र यदि 'स्वभावकारणा भावाः' इति तेषामभ्युपगमस्तदा स्वात्मनि क्रियाविरोधो दोषः। -सन्मतितर्क, तृतीय काण्ड, गाथा ५३ की टीका, पृ.७११ १९१. न हि अनुत्पन्नानां तेषां स्वभावः समस्ति उत्पन्नानां तु स्वभावसंगतावपि प्राक् स्वभावाभावेऽपि उत्पत्तेर्निर्वृत्तत्वान्न स्वभावस्तत्र कारणं भवेत्। -सन्मति तर्क, ३.५३ की टीका, पृ. ७११ १९२. 'ते स्वभाववादिनः स्वमिति। स्वरूपम्। अपिशब्दात्पररूपमपि।' द्वारा कमलशील ने 'स्व' से स्वयं पदार्थ और 'पर' से अन्य पदार्थों की कारणता का निषेध किया -तत्त्वसंग्रह कारिका ११० की टीका, पृ. ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002509
Book TitleJain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Original Sutra AuthorN/A
AuthorShweta Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2007
Total Pages718
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy