________________
स्वभाववाद २२३
१४८. अयं च स्वभावः किं व्यापी प्रतिवस्तु परिसमाप्तो वा? व्यापित्वे त्यक्तस्वपरविशेषणः स्यात् । प्रतिवस्तुत्वे किं तेन कल्पितेनाभिन्नफलेन लोकवादात्। प्रत्येकमात्रवृत्ति च वस्तु घटाद्येव घटादीतीतरेतराभावात् परस्परमस्वभवनपरिग्रहात् कुतः क्व चासौ स्वभावः स्यात् ।
- द्वादशारनयचक्र, प्रथम भाग पृ २३३
१४९. विशेषावश्यक भाष्य गाथा १९१३ - १९२० और १७८६-१७९५
१५०. विशेषावश्यक भाष्य गाथा १६४३ की टीका से
१५१. 'तत्र न तावद् वस्तुविशेषः, तद्ग्राहक प्रमाणाभावात् । अप्रमाणकस्याभ्युपगमे कर्मापि किं नाभ्युपगम्यते, तस्यापि त्वदभिप्रायेणाप्रमाणकत्वात्? किंच वस्तुविशेषः स स्वभावो मूर्तो वा स्यात् । अमूर्तो वा ? यदि मूर्तः तर्हि स्वभाव इति नामान्तरेण कर्मैवोक्तं स्यात् । अथामूर्तः, तर्हि नासौ कस्यापि कर्ता, अमूर्तत्वात् निरूपकरणत्वाच्च, व्योमवदिति ।
-विशेषावश्यकभाष्य, गा. १६४३ की टीका
१५२. अथाकारणता स्वभाव इष्यते, तत्राप्यभिदध्महे- नन्नेवं सत्यऽकारणं शरीराद्युत्पद्यत इत्ययमर्थः स्यात्, तथा च सति कारणाभावस्य समानत्वाद् युगपदेवाशेषदेहोत्पाद - प्रसंग: । अपि च, इत्थमहेतुकमाकस्मिकं शरीराद्युत्पद्यत इत्यभ्युपगतं भवेत्। एतच्चायुक्तमेव, यतो यदहेतुकमाकस्मिकं न तदादिमत्प्रतिनियताकारम्, यथाऽभ्रादिविकारः, आदिमत्प्रतिनियताकारं च शरीरादि । तस्माद् नाकस्मिकम् किन्तु कर्महेतुकमेव । प्रतिनियताकारत्वादेव चोपकरणसहितकर्तृनिर्वर्त्यमेव शरीरादिकं घटादिवदिति गम्यत एव। न च गर्भावस्थासु कर्मणोऽन्यदुपकरणं घटत इत्युक्तमेव ।
- विशेषावश्यक भाष्य गा. १६४३ की टीका
१५३. 'अथ स्वभावत एव भवोत्पत्तिरित्यत्र' अकारणत एवं' इत्ययमर्थाऽभिप्रेतः, 'तो वि त्ति' तथापि हन्त ! परभवे सदृशता कुतः ? कोऽभिप्रायः ? इत्याह यथाऽकारणतः सदृशता भवति, तथा किमित्यकारणत एव विसदृशता न स्यात् ? अकस्माच्चकारण तो भवविच्छित्तिः कस्माद् न स्यात् ?' - विशेषावश्यक भाष्य गा. १७९९ की टीका
१५४. 'उप्पायेत्यादि यद् यस्मादुत्पाद-स्थिति-भंगादयश्चित्रा वस्तुपर्यायाः न च ते सदैवाऽवस्थितसादृश्याः, नीलादीनां वस्तुधर्माणां प्रत्यक्षतएवान्यान्यरूपतया परिणतिदर्शनात् । - विशेषावश्यक भाष्य गा. १७९२ की टीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org