________________
कालवाद १२९ १३९. अथ सहचारिसंपर्कवशादेकस्यापि तथात्वकल्पना । तथाहि - सहचारिणो भरतादयः पूर्वा अपरे च रामादयोऽपराः, ततस्तत्संपर्कवशात्कालस्यापि पूर्वापरव्यपदेशो भवति । सहचारिणो व्यपदेशो यथा- 'मंचाः क्रोशन्ति इति
- अभिधान राजेन्द्र कोश, भाग ३, पृ.४९३
१.४०. तदेतदपि बालिशजल्पितम् । इतरेतराश्रयदोषप्रसंगात् । तथाहि सहचारिणां भरतादीनां पूर्वादित्वं कालगतपूर्वादित्वयोगात्, कालस्य च पूर्वादित्वं सहचारिभरतादिगतपूर्वादित्वयोगतः, तत एकाऽसिद्धावन्यतरस्याप्यसिद्धिः । प्रागसिद्धावेकस्य कथमन्यस्य सिद्धिरिति तत्राद्यः पक्षः श्रेयान् ।
- अभिधान राजेन्द्र कोश, भाग ३, पृ. ४९३
"
१४१. अथ द्वितीय पक्षः सोऽप्ययुक्तः, यतः समयादिरूपे परिणामिनि काले विशिष्टेऽपि फलवैचित्र्यमुपलभ्यते । तथाहि समकालमारभ्यमाणायामपि मुद्रपक्तिरविकला कस्यचिद् दृश्यते, अपरस्य तु स्थाल्यादिसंगतावेव विकला । तथा समयकालमेकस्मिन्नेव तु कालान्तरेऽपि तथा समानेऽपि समकालमपि क्रियमाणे कृष्यादिकर्मण्येकस्य परिपूर्णा धान्यसंपदुपजायते, अपरस्य तु खणमस्फुटिता वा न किंचिदपि । ततो यदि काल एव केवलः कारणं भवेत्तर्हि सर्वेषामपि सममेव मुद्द्रपक्त्यादिकं फलं भवेत्, न च भवति, तस्मान्न कालमात्रकृतं विश्ववैचित्र्यम्, किं तु कालादि सामग्रीसापेक्षं तत्कर्मनिबन्धनमिति स्थितम्" - अभिधान राजेन्द्र कोश, भाग ३, पृ. ४९३
१४२. अनेकान्तेन स्याद्वादिनामपि कालस्य कारणत्वं सम्मतमेव, यतोऽस्माभिर्न काल एवैकः कर्तृत्वेनाभ्युपगम्यते, अपि तु कर्मापि, ततो जगद्वैचित्र्य - मित्यदोषः । एकान्तवादसमाश्रयणे तु दोषः । - अभिधान राजेन्द्र कोश, भाग ३, पृ. ४९३
१४३. तत्र काल एव एकान्तेन जगतः कारणमिति कालवादिनः प्राहुः । तथाहिसर्वस्य शीतोष्ण वर्ष-वनस्पति- पुरुषादेर्जगतः प्रभव- स्थिति - विनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगतिगमनागमनादौ च कालः कारणम् तमन्तरेण सर्वस्यास्याऽन्यकारणत्वाभिमतभावसद्भावेऽप्यभावात् तत्सद्भावे
च भावात्। तदुक्तम् - "कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।। "
-सन्मति तर्क, काण्ड ३, गा. ५३ पर अभयदेव की टीका
१४४. धम्मो अधम्मो आगासं कालो पुग्गल जन्तवो । एस लोगो त्ति पन्नत्तो जिणेहिं वरदंसिहिं । - उत्तराध्ययन २८.७
१४५. 'किमियं भंते! लोएत्ति पवुच्चइ ? गोयमा, पंचत्थिकाया' । - भगवती सूत्र१३/४/४८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org