________________
१२८ जैनदर्शन में कारण-कार्य व्यवस्था : एक समन्वयात्मक दृष्टिकोण
१३३. न
कालमन्तरेण
चम्पकाशोकसहकारादिवनस्पतिकुसुमोद्गमफलबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वा ऋतुविभागसंपादिता बालकुमारयौवनवलिपलितागमादयोवाऽवस्थाविशेषाः घटन्ते प्रतिनियतकालविभाग एव तेषामुपलभ्यमानत्वात् । अन्यथा सर्वमव्यवस्थया भवेत् । न चैतत् दृष्टमिष्टं वा । अपि च मुद्रपंक्तिरपि न कालमन्तरेण लोके भवन्ति दृश्यते, किं तु कालक्रमेण, अन्यथा स्थालीन्धनादिसामग्रीसंपर्कसंभवे प्रथमसमयेऽपि तस्याभावप्रसंगो न च भवति, तस्माद्यत्कृतकं तत्सर्वं कालकृतमिति । अत्र परेष्टहेतुसद्भावमात्रादिति पराभिमतवनितापुरुषसंयोगादिमात्ररूपहेतुसद्भावमात्रादेव, तदुद्भवादिति गर्भाद्युद्भवप्रसंगात् । तथा कालः पचति परिपाकं नयति परिणतिं नयति भूतानि पृथिव्यादीनि तथा कालः संहरते प्रजाः पूर्वपर्यायात् प्रच्याव्य पर्यायान्तरेण प्रजाः लोकान् स्थापयति । तथाकालः सुप्तेषु जनेषु जागर्ति काल एव तं तं सुप्तं जनं आपदो रक्षति भावः तस्माद्धि स्फुटं दुरतिक्रमोऽपाकतुमशक्यः । - अभिधान राजेन्द्र कोश, भाग ३, पृ.४९२
१३४. तत्र ये कालवादिनः सर्वं कालकृतं मन्यन्ते । तान् प्रति ब्रूमः - कालो नाम किमेकस्वभावो नित्यो व्यापी, किं वा समयादिरूपतया परिणमतीति ? तत्र यद्याद्यः पक्षः । तदयुक्तम्। तथाभूतकालग्राहकप्रमाणाभावान्न खलु तथाभूतं कालं प्रत्यक्षेणोपलभामहे । नाप्यनुमानेन, तदविनाभाविलिंगाभावत् ।
-अभिधान राजेन्द्र कोश, भाग ३, पृ. ४९२ १३५. अथ कथं तदविनाभावलिंगाभावो यावता दृश्यते भरतरामादिषु पूर्वापरव्यवहारः, स च न वस्तुस्वरूपमात्रनिमित्तो, वर्त्तमाने च काले वस्तुस्वरूपस्य विद्यमानतया तथा व्यवहारप्रवृत्तिप्रशक्तेः, ततो यन्निमित्तोऽयं भरतरामादिषु पूर्वापरव्यवहार: स काल इति । तथाहि - पूर्वकालयागा पूर्वो भरतचक्रवर्ती, अपरकालयोगी चापरो रामादिरिति । - अभिधान राजेन्द्र कोश, भाग ३, पृ. ४९२
१३६. ननु यदि भरत रामादिपूर्वापरकालयोगतः पूर्वापरव्यवहारस्तर्हि कालस्यैव कथं स्वयं पूर्वापरव्यवहारः ? तदन्यकालयोगादिति चेत् न । तत्राऽपि स एव प्रसंग इत्यनवस्था | - अभिधान राजेन्द्र कोश, भाग ३, पृ. ४९२-४९३
१३७. अथ मा भूदेष दोष इति, तस्य स्वयमेव पूर्वत्वमपरत्वं चेष्यते, नान्यकालयोगादिति । तथाचोक्तम्- "पूर्वकालादियोगी यः पूर्वादिव्यपदेशभाक् । पूर्वापरत्वं तस्यापि स्वरूपादेव नान्यतः । - अभिधान राजेन्द्र कोश, भाग ३, पृ. ४९३
१३८. तदप्याकण्ठपीताऽऽ सवप्रलापदेशीयम्। यत एकान्तेनैको व्यापी नित्यः कालोऽभ्युपगम्यते ततः कथं तस्य पूर्वादित्वसंभवः ।
- अभिधान राजेन्द्र कोश, भाग ३, पृ. ४९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org