SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ कालवाद १२७ १२३. यत्किंचिद् लोके घटादि, तदपि कालव्यतिरेकेण न भवति, कर्मदण्डादिसत्त्वेपि कालान्तर एव स्वर्गघटाद्युत्पत्तेः। तस्मात् कारणात् कालः 'किल' इति सत्ये अन्यस्यत्वन्यथासिद्धत्वादसत्यत्वमिति भावः। -शास्त्रवार्ता समुच्चय, स्त. २, श्लोक ५३ की टीका १२४. किंच कालादृते नैव मुद्रपक्तिरपीक्ष्यते। स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता।। -शास्त्रवार्ता समुच्चय, स्त. २, श्लोक ५५ १२५. तत्रापि हेत्वन्तरापेक्षावैयग्रयात्, आवश्यकत्वेन कालस्यैव तद्धेतुत्वौचित्या दित्याशयः। -शास्त्रवार्ता समुच्चय, स्त.२, श्लोक ५५ की टीका १२६. कालाभावे च गर्भादि सर्व स्यादव्यवस्थया। परेष्टहेतुसद्भावमात्रादेव तदुद्भवात्।। -शास्त्रवार्ता समुच्चय, स्त. २, श्लोक ५६ १२७. ननु कालोऽपि यद्येक एव सर्वकार्यहेतुः तदा युगपदेव सर्वकार्योत्पत्तिः। __ -शास्त्रवार्ता समुच्चय, स्त.२,श्लो. ५६ की टीका। १२८. तस्य च तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणत्वेन हेतुत्वम्, तत्क्षणवृत्तित्वं च तत्क्षणास्यापि, अभेदेऽपि 'इदानी क्षण' इति व्यवहारात् कालिकाधाराऽऽधेयभावसिद्धेः। _ -शास्त्रवार्ता सम्मुच्चय, स्तबक. २, श्लोक ५६ की टीका। १२९. अन्यानपेक्षः कालोऽपि कारणं नोपपद्यते विवक्षितसमये कार्यान्तरस्याऽप्युत्पत्ति प्रसंगात्। -शास्त्रवार्ता सम्मुच्चय, स्तबक २, श्लोक ७७ की टीका १३०. न च तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणहेतुत्वाभिधानाद् न दोष इत्युक्तमेवेति वाच्यं अग्रे भाविनस्तत्क्षणवृत्तित्वस्यैव फलत आपाद्यत्वात्। - शास्त्रवार्ता सम्मुच्चय, स्तबक. २, श्लोक ७७ की टीका १३१. यतश्च काले तुल्येऽपि सर्वत्रैव न तत्फलम्। अतो हेत्वन्तरापेक्षं विज्ञेयं तद् विचक्षणैः।। -शास्त्रवार्ता समुच्चय, स्त. २, श्लोक ७८ १३२. हेत्वन्तरापेक्षं कालातिरिक्तदेशादिहेतुजन्यं विज्ञेयम्। न च मृदोऽन्यत्र घटस्याऽनापत्तिरेव, काले हेतुसत्त्वेऽपि देशे कार्यानापत्तेरिति वाच्यम्, मृदजन्यत्वेन मृदवृत्तित्वस्याऽऽपाद्यत्वात्। - शास्त्रवार्ता सम्मुच्चय, स्तबक २, श्लोक ७८ की टीका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002509
Book TitleJain Darshan me Karan Karya Vyavastha Ek Samanvayatmak Drushtikon
Original Sutra AuthorN/A
AuthorShweta Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2007
Total Pages718
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy