________________
चतुर्थ उल्लास . शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युमुखम् । विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता॥ शून्यमित्यादिना उद्दीपनातिशयः, चुम्बनप्रवृत्तियोग्यता च ध्वन्यते । एवं वासगृहमित्युपकरणसंपत्तिः । विलोक्य निपुणं निभाल्य, सहचरनिभृतत्वशङ्कया, किञ्चित् न तु सर्वतः, निद्राभाभिया, [५० ११.१] शयनादुत्थायेत्युत्कण्ठातिशयो ध्वन्यते । शनैर्वलयादिकाणो यथा न स्यात् । निद्राव्याजमुपागतस्येत्यनेन तदीयधाष्टाभिधानम् , पत्युमुखमित्यनेन युक्तानुरागित्वम् , विश्रब्धमित्यनेन अनुरागातिशयादविमृश्यकारित्वम् । नम्रमुखी न तु नामितमुखी, लज्जातिशयात् तथा व्याकुलाऽभूत् येन मुखावनामनेऽपि न खातव्यम् । चिरमित्यनेन लज्जापगमः संभोगखीकारश्च व्यज्यते । हसता तव निखिलमेव रहस्यमवगतमिति हासः । लजत इति लज्जा पृथक् पदम् , ततो मुखनमनलज्जनक्रियापेक्षया समानकर्तृकत्वेन, आलो. क्येत्यत्र क्त्वोत्पत्तिः। .. अपरस्त्वभिलाषविरहेणूंप्रवासशापहेतुकः पञ्चविधः । स च सनमप्रत्याशाकालीनस्तदनुत्पादः । अभिलाषः इच्छा, देशैक्येऽपि गुर्वादिपारतन्त्र्यं विरहः । देशैक्येति विशेषणादस्य प्रवासतो भेदः । अन्यसङ्गिनि प्रिये कोपः ईर्ष्या, प्रवासो वैदेश्यम् , मुन्यादिनियन्त्रणं शापः । अत्र हेतुः पूर्ववर्ती, अभिलाषस्यानुत्पादकत्वेऽपि पूर्ववर्तित्वं नियतमेव सिद्धम् , इच्छाविरहात् । क्रमेण उदाहरणानि
प्रेमाः प्रणयस्पृशः परिचयादुद्गाढरागोदयाः
तास्ता मुग्धदृशो निसर्गचतुरा चेष्टा भवेयुर्मयि । यास्त्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा
दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ प्रणयः प्रेमैव कष्टापन्नम् । परिचयोऽत्यन्तसंपर्कः । केचित् तु प्रेम स्नेहः स एव प्रकृष्टः सन् प्रणयः उच्यते । स एव परिचयातिशयेन रञ्जनसमो राग इत्याहुः । भवेयुरिति प्रार्थनायां लिङ । यास्वाशंसापरिकल्पिताखपि अन्तःकरणस्य आनन्दसान्द्रो लयो भवतीत्यन्वयः । रोधीत्यत्रावश्यके णिनिः । निसर्गः खभावः, आशंसा इच्छा, लयस्तन्मयत्वम् , व्यापारः पटुत्वेन खखविषयग्राहित्वम् । विरहहेतुकमुदाहरति - ___अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहृद्
... यो मां [प० ११.२ ] नेच्छति नागतश्च सहसा कोऽयं विधेः प्रक्रमः। का० प्र०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org