________________
काव्यप्रकाशखण्डन
इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे ।
बाला वृत्तविवर्तनव्यतिकरा नामोति निद्रा निशि ॥ एषा विरहोत्कण्ठिता । अन्यत्र प्रवासे नायिकान्तरगृहे वा तत् तावदलीकमेव तत्कथाऽपि नास्ति । नापि कश्चिदीदृग् एतस्य सुहृन्मित्र यो मां नेच्छति न सहते यनिषिद्धो नागच्छेदिति भावः । शीघ्रं च नागतः कोऽयं विधेः प्रक्रमः ? विधेर्दैवस्य प्रक्रम आरम्भः । कोऽयमित्यननुभूतपूर्वः । इत्थं बहुवितस्तं मनो यस्याः, वृत्तविवर्त्तनं उद्वृत्तपरिवर्तनं शय्यायां परिवृत्तिः, तस्य व्यतिकरः सम्बन्धो यस्याः सा । निशान्तान्तरे गृहाभ्यन्तरे बाला तन्वी निद्रां सुप्ति निशि रात्रौ नाप्नोति नाधिगच्छतीत्यन्वयः । इDहेतुकमुदाहरति
सा पत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमागवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलोदकैरश्रुभिः॥ लुठन्तो लोला अलका येषु तैः अश्रुभिः, पर्यस्ते व्याकुलीकृते नेत्रोत्पले यस्याः सा बाला केवलमेव रोदितीत्यन्वयः । सख्या भावः सख्यं तेनोपदेशः । नारायणभट्टास्तु 'सख्या इति षष्ठी एकादेशः प्रामादिकः' इति पेठुस्तच्चिन्त्यम् । अत्र पत्युरन्यासङ्गाद् बालाया ईर्ष्या । प्रवासहेतुकमुदाहरति
प्रस्थानं वलयैः कृतं प्रियसखैरौरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः। यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिताः
____ गन्तव्ये सति जीवित ! प्रिय ! सुहृत्सार्थः किमुत्सृज्यते ॥ वलयैरिति तेन कायस् । अस्राणामपि हृदयस्थितत्वेन प्रियसखत्वम् । निश्चितचेतसि नो गन्तुमुद्यते । जीवितेति प्रियेति सम्बुद्धिः, [प. १२.१] कान्तस्येव तव त्यक्तुमुचितत्वात् । शापहेतुकमुदाहरति
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अप्रैस्तावन्मुहुरुपचितैदृष्टिरालुप्यते मे
__क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ कुपिताया लौहित्यौचित्वात् धातुरागैरित्युक्तम् । अच्छासमयस्मरणोद्रिक्तविरहजनिताश्रुभिदृष्टिलोपस्तेन लिखन-पादपतनयोरप्यनिर्वाहः । अर्थान्तरं न्यस्यति-क्रूर इति कृतान्तो दैवं तदेव कृतान्तो यमः । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु' इत्यनुशासनात् । अत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org