________________
१६
कव्यप्रकाश खण्डन
णादिचमत्कारित्वं च । भाव इति भावयति वासयतीति भावो वासना तेन निर्वानेषु श्रोत्रियादिषु न प्रसङ्गः ।
ननु कथं रत्यादेः अनुरागः दिरूपस्य अन्तःकरणवृत्तिविशेषस्य अभिव्यक्तावेव परमानन्दरूपरसोद्बोध इति चेत्, उच्यते । अयमभिप्रायः - वेदान्तिनये सर्वस्मिन् ज्ञाने आत्मभाननेयत्यात् काव्यदर्शनश्रवणमहिम्ना उक्तया अभिव्यक्तत्या चिात्मनः अज्ञानांशे आवरणभङ्गः क्रियते । आवरणं त्वज्ञानमेव । तथा च न रत्याद्यवच्छिन्नं चैतन्यं आनन्दांशे भग्ना - वरणम् | आनन्दरूपतया प्रकाशमानं रस इति निर्गलितार्थः । ज्ञानान्तरे त्वज्ञानभङ्गाभावान्न रसोद्बोधः । तस्यां चाभिव्यक्तौ लिङ्गोपहितलैङ्गिकभानवद् विभावादिसं भेदोऽप्यावश्यकः । अत एवोक्तम् – पानकरसन्यायेनेति । ननु रसस्तावत् सामाजिकनिष्ठरत्युद्बोधः । स कथं रामा - दिसम्बन्धित्वेन अवगतेभ्यः सीतादिभ्यो भवति ? असंभवाद् इति चेत्, न । विभावादीनां साधारण्यमात्रेण ज्ञानमपेक्षितम्, साधारण्यं च यत् किञ्चित् सम्बन्धि विशेषसम्बन्धित्वेन अज्ञायमानत्वे सति ज्ञायमानत्वम् । न च सीतात्वादिज्ञाने कथमेतादृशं साधारण्यम्, तदा विभावादिव्यापारमहिम्ना सीतात्यादि [ १० १०.२ ] परिहारेण स्त्रीत्वादिनैव ज्ञानात् । अत एवोक्तम्-ता एवापहृतविशेषा रसहेतव इति । एवं रत्यादेः साधारण्यमपि रसोद्बोधे हेतुः । अन्यथा सीताद्यालम्बन करत्यादेः खनिष्ठत्वज्ञाने व्रीडातङ्कादिः स्यात् । परनिष्ठत्वज्ञाने सभ्यानां रससाक्षात्कारो न स्यात् । वस्तुतः सर्वस्मिन् ज्ञाने आत्मभाननैयत्यम् । काव्यश्रवणानन्तरं विभावादिभिः तस्य आनन्दांशे आवरणभङ्गः । तथा सीतात्वादि ( दी ? ) नां सीतात्वादिपरिहारेण साधारण्यम्, रत्यादिभावस्य च साधारण्यम् - इत्यादि स्वीकर्त्तव्यम् । इति प्राचां निष्कर्षः । तदपेक्षया कामिनी कुचकलशस्पर्शचन्दनानुलेपनादिनेव नाट्यदर्शनकाव्यश्रवणाभ्यां सुखविशेषो जायते । स एव तु रस इति नवीनाः ।
अथ प्राचां रसविशेषानाह -
शृङ्गार - हास्य-करुणा रौद्र-वीर-भयानकाः ।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ ( मू० का० २९ ) श्रव्यकाव्ये शान्तोऽपि रसः । अथैषां स्थायिभावाः -
रतिर्हासच शोकश्व क्रोधोत्साहो भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्त्तिताः ॥ ( मू० का० ३० ) शान्तस्य तु निर्वेदः स्थायी ।
नवीनास्तु शृङ्गार - वीर - हास्याद्भुतसंज्ञाश्चत्वार एव रसाः । करुणादीनां यथा न रसत्वं तथा वक्ष्यते ।
.
तत्र शृङ्गारस्य द्वौ भेदौ - संभोगो विप्रलम्भश्च । उभयस्यैव रतिप्रकृतिकत्वात् । तत्राद्यः परस्परालोकनालिङ्गन-चुम्बनाद्यनन्त भेदादपरिच्छेद्य इति संभोगत्वमुपाधिमादायैक्यम् । उदा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org