SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उल्लास . अभिधामूलमाह विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः। (मू० का० २५, पू०) अन्यपरं व्यङ्ग्यनिष्ठम् । तदाक्षेपकत्वेन तत्र विश्रान्तमिति यावत् । एतस्य विवक्षितान्यपरवाच्यस्य द्वौ भेदौ- एकोऽसंलक्ष्यक्रमव्यङ्ग्यो द्वितीयः संलक्ष्यक्रमव्यङ्ग्यः । अत्र संलक्ष्येति न खलु विभावानुभावसंचारिण एव रसः, अपि तु रसस्तैः प्रत्याय्यत इति विभावादेर्व्यञ्जकस्य रसस्य व्यङ्ग्यस्यास्ति पौर्वापर्यक्रमः स न लक्ष्यत इत्यर्थः । आखादेन झटिति चित्ताकर्षणात् कालसौक्ष्म्याच्च । तत्र च । रसभाव-तदाभासभावशान्त्यादिरक्रमः। • भिन्नो रसाचलङ्कारादलङ्कार्यतया स्थितः ॥ (मू० का० २६) । - अक्रमः असंलक्ष्यक्रमव्यायः, आदिप्रदणाद् भावोदयभावसन्धिभावशबलत्वानि गृह्यन्ते । गुणीभूतव्यङ्ग्येति व्याप्तिवारणाय भिन्नति हेतुमाह - अलङ्कार्यतया स्थित इति प्रधानतया यत्र स्थितो रसादिस्तत्रालङ्कार्यः । अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्गय रसवत् प्रेयऊर्जखित्समाहितादयोऽलङ्काराः । स्थिरः स्थिरतामापन्नः तेन अङ्गता बाध्यता वा प्राप्ते रसादौ न तथात्वमिति । रसवदितीवार्थे वतिः । अङ्गभूतस्य रसस्य परिपुष्यभावाद् रसतुल्यत्वात् । प्रेय इति भावस्याङ्गत्वे समाहितमिति मन्तव्यम् । तत्र रसखरूपमाह - " कारणान्यथ कार्याणि सहचारीणि यानि तु । रत्यादेः स्थायिनो लोके तानि चेन्नाट्य-काव्ययोः।। (मू० का० २७) विभावानुभावास्तत् कथ्यन्ते व्यभिचारिणः। व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः॥(मू० का० २८) 'कारणानि' राम-सीतादीनि, परस्परानुरागे परस्परकारणानि, तस्योद्दीपनकारणानि उद्यानादीनि. अथश्चार्थे. कटाक्षादीनि कार्याणि, लज्जा-हास्यादीनि सहचारीणि रत्यादेरुप. चायकानि. सामग्रीसंपातेन रत्यादिभिः सहचरणात् । 'सहकारीणी ति तु [प० १०.१] पाठे रत्यादेरेकरूपस्य तचद्विचित्रस्मितरुदितादिकार्यजननयोगे सामग्रीवैचित्र्यापादकानि । 'विभावा' इति । से तु द्विधा- आलम्बनविभावा नायिकादयः, उद्दीपनविभावा उद्यानादयः इति । ननु कारणादिशब्दसत्त्वे कथं विभावादिसंज्ञेति चेत्, उच्यते-सामाजिकनिष्ठरत्यादीनां आराध्यत्वेन ज्ञाता[:] सीतादयो, न ते कारणादयो येन तथा स्युः । तेषां च विभावानुभावसञ्चाराणां त्रयव्यापारवत्त्वाच, तथाविधसंज्ञाः, तेषां च व्यापाराणां रत्यादेरीषप्रकाशः स्फुटतरप्रकाशः 'स्फुटतमप्रकाशः फलम् । विगलितवेद्यान्तरत्वेन स्थितिः, पुरस्फुर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy