________________
काव्यप्रकाशखण्डन चश्मत् सपत्नं प्रत्यवस्कन्दनावसरः इत्याद्यर्थाः प्रकाश्यन्ते । कालो वर्षादिः । शो दूरादिः । यथा
उपरि घनाघनपटली दूरे दयिता किमेतदापतितम् ।
हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि ॥ अत्र काल-देशवैशिष्टयेन अनातिशयोऽभिव्यज्यते । ॥ इति पादसाह-श्रीअकब्बरजल्लाल[दीन] सूर्यसहस्रनामाध्यापक-[ प० ९.१ ] श्रीशत्रुजयतीर्थकरमोचनाद्यनैकसुकृतविधापकमहोपाध्याय-श्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकब्बरजल्लालदीनप्रदत्त-पुस्फहमापराभिधानमहोपाध्याय-श्रीसिद्धि
चन्द्रगणिविरचिते काव्यप्रकाशखण्डने तृतीय उल्लासः ॥
चतुर्थ उल्लासः। अथ ध्वनिभेदानाह । तत्राऽदौ लक्षणामूलमाह -
अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद् ध्वनौ ।
अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ॥ (मू० का० ५४) लक्षणामूलगूढव्यङ्ग्यप्राधान्ये सति अविवक्षितं वाच्यं यत्र स ध्वनावित्यनुवादाद् ध्वनिरिति ज्ञेयः । अत्राविवक्षितं वाच्यतावच्छेदकप्रकारेणेति बोध्यम् । अन्यथा 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्र वाच्यस्यापि विवक्षणात् तदसंग्रहः स्यात् । अर्थान्तर इति । खार्थमपरित्यज्य अर्थान्तरपरशब्दकमित्यर्थः । अत्यन्तमिति । शक्यस्य सर्वथानन्वयित्वात् , अन्वयाप्रतियोगित्वं तिरस्कार इति । तदत्र लक्षणामूले अर्थान्तरसङ्क्रमितवाच्यात्यन्ततिरस्कृतवाचौ द्वौ भेदौ ज्ञेयौ। तत्राद्यो यथा
त्वामसि वच्मि विदुषां समवायोऽत्र तिष्ठति ।
आत्मीयां मतिमादाय स्थितिमत्र विधेहि तत् ॥ . अत्र वाच्यस्यानुपयुज्यमानत्वात् लक्षणैवाश्रयणीया। तथा हि- त्वां उपदेश्यम् , अहमुपदेष्टा, वच्मि उपदिशामीत्यर्था लाक्षणिकाः । तथा चावश्यवाच्यहिताहितत्वालङ्घनीयाज्ञत्वादरग्राह्यत्वानि व्यज्यन्ते । एवं विदुषां अनन्यसाधारणज्ञानवतां समवायः परस्परसापेक्षता आशुविपक्षदूषकत्वं सर्वग्राबैकपक्षत्वं व्यङ्ग्यम् । आत्मीयां पराप्रतार्याम् , अदुष्टपक्षोद्भावनं फलम् , स्थिति सावधानाम् , विपक्षच्छिद्रप्रेक्षकत्वं फलमित्यर्थान्तरसङ्क्रमितवाच्यत्वं खार्थे अपरित्यज्य परार्थावबोधकत्वं प्रथमो भेदः।
द्वितीयो यथा- 'उपकृतं बहु तत्रे'त्यादिना । एतदपकारिणं प्रति विपरीतलक्षणया कश्चन वक्ति । अत्र अपकारातिशयो व्यङ्ग्यः । अत्र वाच्यस्य सर्वथान्वये। प० ९.२ ]ऽप्रवेशादत्यन्ततिरस्कृतवाच्यता । अन्वयाप्रवेश एव तिरस्कारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org