________________
१३
तृतीय उल्लास । 'अकस्मादस्याः क्रुत एवं श्रमः इति तर्कयन्ती सखी प्रतीयमुक्तिः । अत्र पृथुलजलकुम्भवहनपूर्वकत्वरितगमनजन्योऽयं श्रमः, नान्यथा शकिष्ठाः- इति रतगोपनं वक्याः , पुंश्चलीत्वं वैशिष्टयम् । कुलवधूकावेवमप्रतीतेः। बोद्धव्यवैशिष्टयात् यथा
उपकृतं बहु तत्र किमुच्यतां सुजनता भवता प्रतिपादिता।
विदधदीदृशमेव सदा सखे ! सुखितमास्थ ततः शरदां शतम् ।। एतदपकारिणं प्रति विरोधलक्षणया कश्चन वक्ति । अत्रापकारातिशयो व्ययः । काकोर्यथा
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां, ___ वने व्याधैः सार्द्ध सुचिरमुषितं वल्कलधरैः। विराटस्यावासे स्थितम[प० ८,२ ]नुचितारम्भनिभृतं
गुरुः खिन्ने खेदं मयि भजति नाद्यापि कुरुषु ॥ कुपितस्य मीमस्योक्तिरियम् । दृष्ट्वेति प्रति कर्मणि सम्बध्यते । तथाभूतां स्त्रीमिणी दुःशासनाकृष्टकेशां च । वल्कलधेररित्यत्रास्माभिरिति विशेष्यपदं अध्याहार्य्यम् । आरम्भो वेषः कर्म वा । खिद्यतेऽनेनेति खेदो मात्सर्य्यम् , खिन्ने ग्लाने इत्थमित्यध्याहार्य्यम् । प्रकारान्तरेण खिन्ने खेदभजनौचित्यानुपपत्तेः खिन्ने खेदं भजतीत्यत्यन्तानौचित्यम् । तदाह मयि न योग्यः खेदः, कुरुषु योग्य इति काका प्रकाश्यते । नन्वेवं काकाक्षिप्तत्वेन गुणीभूतव्यजयमेतत् स्यात् , न तु प्रधानभूतध्वन्युदाहरणमिति वाच्यम् । सहदेव ! त्वां पृच्छामि यदेवं गुरुः [खेदं करोति तत् कथमित्येवंरूपेण प्रश्नमात्रेणैव काकोर्विश्रान्तेः । अन्यथा तादृशप्रश्नं विना खिन्ने खेदभजनस्य वाक्यार्थस्य अनुपपद्यमानस्य कुतो व्यञ्जकत्वमिति, मयि न योग्यः खेद इत्यंशे ध्वनित्वमेव । वाक्यसनिघेर्यथा
लावण्यं तदसौ कान्तिस्तद्रूपं स वचाक्रमः ।
तदा सुधास्पदमभूद् अधुना तु ज्वरो महान् ॥ अत्र तदेत्यधुनेति वाक्यविशेषवैशिष्टयेन प्रमोदातिशय-वैराग्यातिशयौ व्यज्यते । वाच्यवैशिष्टयं तु 'अइपिहुले' त्यनेनोदाहृतम् । अन्यसंनिधिवैशिष्टयस्य यथा
सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया।
ईषनेत्रार्पिताऽऽकूलं लीलापमं निमीलितम् ॥ चेश्यविशेषस्यापीदमुदाहरणम् । अत्र जिज्ञासितः सङ्केतकालः कयाचित् निशासमयशंसिना कमलनिमीलनेन प्रकाशितः प्रस्तावाद् । यथा-गतोऽस्तमर्क इत्यनेन तत्तत्प्रकरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org