________________
१२
काव्यप्रकाशखण्डन
व्यायव यथा
उय णिच्चलणिप्पन्दा बिशिणीपत्तम्मि रेहई बलाआ। निम्मलमरगअभाअणपरिहिआ शंखसुत्ति छ। [पइस विश्वलनिष्पन्दा विशिनीपत्रे राजते बलाका ।
निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥] निश्चलः पर्वतः तद्वदनिष्पन्देत्यर्थः । अथवा हे निश्चल ! निरुद्यम ! इति सम्बोधनम् । अत्र निष्पन्दत्वेनाश्वस्तत्वम् । तेन जनरहितत्वम् । अतः सङ्केतस्थानमेतदिति कयाचित् कचि(चित् प्रत्युच्यते । सम्भोगाद् विप्रलम्भस्याधिकमधुरत्वेन । पक्षान्तरमाह - अथवा मिथ्या वदसि, न त्वं तत्र गतो भूरिति व्यज्यते ।
॥ इति पादसाह-श्रीअकब्बरसूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधायकमहोपाध्याय-श्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदित[प० ८.१]पादसाहश्रीअकब्बरप्रदत्त-षु (खुस्फिहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचिते
काव्यप्रकाशा(ख)ण्डने द्वितीय उल्लासः ॥
तृतीय उल्लासः। अथ- अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः । (मू० का० २०, उ०) अर्थव्यञ्जनोपायमाह
वक्तबोद्धव्यकाकूनां वाच्यवाक्यान्यसंनिधेः। (मू० का० २१, उ०) प्रस्तावदेशकालादेवैशिष्ट्यात् प्रतिभाजुषाम् ।
योऽर्थस्थान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥ (मू० का० २२) बोद्धव्यः प्रतिपाद्यः । काकुव॑नेर्विकारविशेषः । वाक्यवाच्यसहितोऽन्यसनिधिरित्यर्थः । अन्यो वक्तृबोद्धव्यभिन्नो जनः, प्रस्तावः प्रकरणम् , देशो विजनादिः, कालो वसन्तादिः, वैशिष्ट्यात् वैलक्षण्यात् । पञ्चम्या हेतुत्वमुक्तम् । तदभावे व्यञ्जनानुदयात् । प्रतिभा वासनाविशेषः । तेन श्रोत्रियादिषु न प्रसनः । व्यक्तिरेव सा । एवकारेण व्यापारान्तर-प्रमाणान्तरव्युदासः । सङ्केताद्यभावेन नाभिधादिः । आदिग्रहणात् चेष्टादेः परिग्रहः । अर्थस्य वाच्यलक्ष्यव्यङ्ग्यात्मनः, एषां च सकरे यस्योद्भटता तन्मूलो व्यवहारः।
अइपिहुलं जलकुंभ घेत्तूण समागदम्मि सहि.तुरि । समसेअसलिलणीसासणीसहा वीसमामि खणं ॥ [अतिपृथुलं जलकुम्भं गृहीत्वा समागताऽस्मि सखि ! स्वरितम् । श्रमस्वेदसलि [ल] निःश्वासनिःसहा विश्रमामि क्षणम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org