________________
काव्यप्रकाशखण्डन स. कृष्णः मनोज्ञं भीमं च वपुः शरीरमाप प्राप्त [प०६०,१] वान् । पीत"वासो वसं यस्य सा। प्रगृहीतं शाङ्ग धनुर्येन सः । क इव ? शशिना चन्द्रेण संसृज्यमानः मेघ इव । कीरशो मेघः ! शतहदा विद्यत् तदेव यदिन्द्रायुधं तद्वान् तयुक्तः इत्यर्थः । अत्रोपमेयस्य शङ्खादेरनिर्देशात् शशिनो ग्रहणमतिरिच्यत इति । तथोपमानोपमेययोर्लिङ्गवचनभेदो दोषः। साधारणधर्मस्यैकमात्रगतत्वेन प्रतीतेः । तथा
- चिन्तारत्नमिव च्युतोऽसि करतो धिङ् मन्दभाग्यस्य मे । • अत्र च्युत इत्युपमेयमात्रेणान्वीयते पुंल्लिङ्गत्वात् । यथा वा
सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव । अत्र शुद्धा इत्युपमेयमात्रेणान्वीयते । लिङ्गभेदो विद्यमानोऽत्राप्रधानम् । यत्र नानात्वेऽपि लिङ्गवचनयोः साधारणधर्मो नैकमात्रगामी भवति तत्र नायं दोषः । यथा....गुणैरनध्यः प्रथितो रतैरिव महार्णवः । - अत्र लिङ्गभेदेऽपि विशेषणान्वयस्याविशेषाद् दोषाभावः ।
तद्वेषो सदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः। " दधते स्म परां शोभां तदीया विभ्रमा इव ॥
तदवेषः परां शोभां दधते । तदीया विभ्रमा विलासा इव । वेषः कीदृशः! अन्याभिः स्त्रीभिः असदृशः । पुनः कीदृशः ? मधुरतया भृतः पूर्णः । विभ्रमा अपि मधुरतां बिभर्तीति मधुरताभृत् ते मधुरतामृत इत्यर्थः । वचनभेदोदाहरणमिदम् ।
तथोपमायां कालपुरुषविध्यादिभेदोऽपि दोषः, उद्देश्यप्रतीतेरस्खलितरूपतया विश्रान्तेर. भावात् । यथा
अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुदती।
पश्चिमाद् यामिनीयामात् प्रसादमिव चेतना ॥ कुमुद्वती स्त्री काकुत्स्थात् अतिथिं पुत्रं आप । केव ? चेतना प्रसादमिवेत्यर्थः । अत्र चेतना प्राप्नोति न पुनरापेति कालभेदः । तथा
[प्रत्यग्रमजनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता ।]
विभ्राजसे मकरकेतनमयन्ती, बालप्रवालविटपप्रभवा लतेव । "भकरकेतनं कामं अर्चयन्ती पूजयन्ती त्वं राजसे। कीडशी ! प्रत्यग्रं सद्यस्कं यन्मजनं स्नानं तस्य विशेषेण विविक्ता [प०६०,२ ] व्यक्ता मूर्तिर्यस्याः सा । कौलुम्भरागेण रुचिरः स्करन्नंशुकस्य वस्त्रस्यान्तो यस्याः । केव ? बालो नूतनः प्रवालः पत्रं यत्र एतादृशो यो विटपः शाखी तत्र प्रभव उत्पत्तिर्यस्यास्तादृशी लतेवेत्यर्थः । अत्र लता विभाजते न तु विमाजस इति पुरुषभेदः । तथा- 'गङ्गेव प्रवहतु ते सदैव कीर्तिः । इत्यादौ गहा प्रवहति, न तु प्रवहत्विति प्रवृत्तप्रवृत्तात्मनो विधेर्भेदः।
एवमुपमायामसादृश्यमसंभवश्च दोषः । स्फुटमुदाहरणद्वयम् ।
उत्प्रेक्षायामपि संभावनध्रुवादयशब्दा एव वक्तुं प्रभवन्ति न तु यथाशब्दोऽपि । तत्र तदुपादानं दोषः । यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org