________________
१०१
दशम उल्लास उद्ययौ दीर्घिकागर्भान्मुकुलं मेचकोत्पलम् ।
नारीलोचनचातुर्यशङ्कासंकुचितं यथा॥ दीर्षिकागर्मात् सरोवरमध्यान्मुकुलं उद्ययौ मेचकोत्पलं कर्बुरकमलम् , नार्याः स्त्रियो लोचनानां चातुर्य तस्मात् या शङ्का भयं तेन सङ्कुचितमिवेत्यर्थः । एवं साधारण विशेषणबलादेव समासोक्तिरनुक्तमप्युपमानविशेष प्रतिपादयतीति तस्यात्र पुनरुपादाने दोषः । . स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया ।
अतनुमानपरिग्रहया स्थितं रुचिरया चिरया दिवसश्रिया ॥ - तिग्मरुचौ सूर्ये ककुभो दिशः करैः स्पृशति सति दिवसशोभया मनोहरया चिरया दीर्घया, अतनु दी! यो मानस्तस्य परिग्रहो ग्रहणं यस्यास्तया, स्थितं विजृम्भितो वर्द्धितः सायो यस्यास्तया । कयेव ? दयितयेव प्रतिनायिकयेवेत्यर्थः । अत्र तिग्मरुचौ ककुभां च यथासहशविशेषणबलेन व्यक्तिविशेषपरिग्रहेण च नायकतया व्यक्तिः, ग्रीष्मदिवसश्रियोऽपि पतिनायिकास्वं प्रतिपादयतीति किं दयितयेति खशब्दोपादानेन ? । एवमप्रस्तुतप्रशंसायामपि उपमेयमनयैव रीत्या प्रतीतम् । न पुनः प्रयोगेण कदर्थनीयम् । नवीनास्तु एतान् दोषान् उक्तदोषेष्वन्तर्भावयन्तीति [५०६१,१] युक्तमुत्पश्याम इत्युपरम्यत इति ॥
कवेगिरां यद् यदवादि दूषणं पुरातनैर्गडुरिकाप्रवाहतः। इदं सुवर्ण कृतमस्य खण्डनं मया बुधानां हृदयस्य भूषणम् ॥१॥ प्रतापभानुरिवाहितानामानन्दकृञ्चन्द्र इवेतरेषाम् । युक्तं तवैतत् किल वाचकेन्द्रश्रीभानुचन्द्रान्वयसंभवस्य ॥२॥ भानुः प्रतापं न च दृक्प्रमोदं दृग्मोदमिन्दुर्न पुनः प्रतापम् । तनोषि चैतद् द्वयमप्यधीश! तस्मादमूभ्यामधिकोऽसि नूनम् ॥३॥ कथ प्रभोऽपाकुरुषे प्रताप-यशःप्रभाभिर्बत भानुचन्द्रौ। त्वं भानुचन्द्रानुचरोत्तमोऽपि यद्वा चरित्रं महतामचर्यम् ॥ ४॥ स्वस्यापरेषामपि कार्यसिद्धि-विधानतः सिद्धिपदप्रतिष्ठा । जगजनानन्दविधायकत्वात् त्वदाह्वये चन्द्रपदव्यवस्था ॥५॥ प्रस्थापिताः स्वविषयात् शमिनः समेऽपि
श्रीशाहिना बत विनैव भवन्तमेकम् । यहा युगान्तसमयोत्थितमारुतेन शैलाः समेऽपि चलिता न तु नाकिशैलः॥६॥
॥इयं शिष्यकृता प्रशस्तिः॥ ॥ इति पादशाहश्रीअकब्बरसूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्याय-श्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकबर.
प्रदत्त-षु (ख)स्फहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचिते
काव्यप्रकाश(ख)ण्डने गुणनिर्णयो नाम दशम उल्लासः समाप्तः ॥ ॥ संवत् १७०३ वर्षे अश्व(श्चि)न शुदि ५ गुरौ लिखितम् ॥ श्रीः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org