________________
: दशम उल्लास.
९१ .. एकत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ । तेनासौ विरूपः । तेनायमनुप्राद्यानुप्राहकतया सन्देहेनैकपदप्रतिपाद्यतया • च व्यवस्थितत्वात् त्रिरूपतया सङ्करः कथितः। अत्रेदमवघातव्यम्-यत्र शब्दाः परिवृत्तिं न सहन्ते स शब्दालङ्कारः; यत्र न तथा सोऽर्थालकारः । यत्र तु केचन सहन्ते केचन न सहन्ते स उभयोलङ्करः । यथा पुनरुक्तवदाभासः परम्परितरूपकं च । [प०५९,२] अर्थस्य तु तत्र वैचित्र्यमुत्कटतया प्रतीयत इति तयोरालङ्कारमध्ये गणनं कृतमित्यन्यत्रापि बोध्यम् । __ अथैषामलङ्काराणां दोषाः। अनुप्रासस्य प्रसिद्ध्यभावः, वैफल्यम् , वृत्तिविरोधः-त्रयो दोषाः । क्रमेण उदा०. अर्चनेन तव दिव्यवर्चसा स्यन्दनेन पदमैन्द्रमृच्छति ।
चन्दनेन तव शैलनन्दने नन्दने च जन एष नन्दति ॥ . __अवार्चनादिना ऐन्द्रपदलाभादिफलं अनुप्रासानुरोधेनैव प्रतिपादितं न पुनः पुराणादिषु
तथाप्रसिद्धिरिति प्रसिद्धिविरोधः ।। ___ तथा 'उर्व्यसावत्र ताली'त्यादि । अत्र चानुपासेन चास्य विविच्यमानं न किञ्चिदपि चारुत्वं प्रतीयते । तथा साधारणधर्माश्रिते न्यूनत्वाधिकत्वं च दोषः । क्रमेणोदा०
चण्डालैरिव युष्माभिः साहसं परमं कृतम् । वह्विस्फुलिङ्ग इव भानुरयं चकास्ति ॥
तथा
अयं पद्मासनासीनश्चक्रवाको विराजते ।
युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः॥ अत्यन्तोत्कृष्टस्योपमानत्वं अपकृष्टस्य उपमेयस्य उपहास एव पर्यवस्यति । दोषानभिधानमषिकत्वस्येति भावनीयम् । यथा
पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ ।
वेणीदण्डः पुनरयं कालिन्दीपात्रसंनिमः॥ अत्र पातालादिभिरुपमानैः प्रस्तुतोऽर्थोऽत्यन्तकदर्थितः इति कष्टत्वम् ।
समुनिलाञ्छितो मौञ्जया कृष्णाजिनपटं वहन् ।
विरजे नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥ स मुनिर्नारदो व्यराजत अशोभत । मौल्या लाञ्छितश्चिह्नितः कृष्णाजिनरूपं पटं वसं वहन् धारयन् । नीलवर्णस्य जीमूतस्य मेघस्य भागे एकदेशे श्लिष्टः संबद्धः अंशुमान् सूर्य इवेत्यर्थः । अत्रोपमानस्य मौजीस्थानीयस्तडिल्लक्षणो धर्मः केनापि पदेन न प्रतिपादित इति न्यूनत्वम् ।
स पीतवासाः प्रगृहीतशाङ्गों मनोज्ञभीमं वपुराप कृष्णः ।
शतहदेन्द्रायुधवनिशायां संसृज्यमानः शशिनेव मेघः ॥ पेषा' इति मु. पु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org