________________
काव्यप्रकाशखण्डन
U
आते गृहीते सीमन्तरत्ने शिरोऽलङ्काररत्ने मरकतिनि मरकतयुक्ते हेम्नः सुवर्णस्य ताटङ्कपत्रे त्रोटीति प्रसिद्धे हृते सति, मेखलायां क्षुद्रघण्टिकायां लुप्तायां गृहीतायां शटिति शीघ्रं मणेः रत्नस्य तुलाकोटिर्नूपुरं तद्युग्मे गृहीते सति, हे राजन् ! स्वच्छत्रुस्त्रीणां अरण्ये वने इत्वरीणां गमनशीलानां हारं शबरा भिल्ला न हरन्ति गृह्णन्ति । कीदृशम् ! बिम्बप्रायस्यैौष्ठस्य कान्त्या रुचा शोणं रक्तं गुञ्जाफलानां खज इति बुद्धयेत्यर्थः । अत्र गुणमपेक्ष्य भ्रान्तिमता प्रादुर्भूतं तदाश्रयणेन तद्गुणः प्रभूतचमत्कार निमित्तमित्येतयोरनाभावः । एवं रूपः सङ्करः शब्दालङ्कारयोरपि दृश्यते । उदाहरणं स्वयमवगन्तव्यम् ।
एकस्य च ग्रहे न्यायदोषाभावाद निश्चयः ॥ ( का० १४०, उ० ) एकस्य एकतरस्येत्यर्थः । न्याय - दोषौ साधक-बाधकप्रमाणौ । तथा च एकत्र [प०५९, १] काव्ये द्वयोर्बहूनां वाऽलङ्काराणां प्रसङ्गे संभवत्येकतरस्य परिग्रहे साधकबाधकप्रमाणाभावात् संशयः ससंदेहसङ्कर इत्यर्थः । यथा -
नयनानन्ददायीन्दोर्विम्बमेतत् प्रसीदति । अधुनाऽपि निरुद्धाशमविशीर्णमिदं तमः ॥
इदं इन्दोर्बिम्बं चन्द्रमण्डलं प्रसीदति प्रसादं प्राप्नोति । इदं तमः विशीर्णम् । कीडशम् ? विनिरुद्धा आच्छन्ना दिग् येनेत्यर्थः । प्रसीदतीत्यस्योभयत्रान्वयादित्यर्थः । अत्र किं काम। स्योद्दीपनकालो वर्त्तते ? - इति भङ्ग्यन्तरेण कथनात् किं पर्यायोक्तम् ? उत तदाननस्येन्दुबिम्बस्य तथाध्यवसायादतिशयोक्तिः ? । किमेतदिति वक्त्रं निर्दिश्य तद्रूपारोपणाद् रूपकमिदमित्यादिबहूनां संदेहादयमेव सङ्करः । यत्र पुनः -
'सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासद्युतिः ।'
इत्यादौ हासद्युतिर्वक्त्र एवं संभवतीत्युपमायाः साधिका, रूपकस्य तु बाधिका । तथा 'पादाम्बुजं जयत्यस्था मञ्जुमञ्जीरसिञ्जिताम् ।'
इत्यत्र मञ्जीरसिञ्जितमम्बुजेनास्तीति रूपकस्य साधकमुपमायाश्च बाधकमिति तत्र न सम्देहसङ्करः । एवमन्यत्रापि भाव्यम् ।
Jain Education International
स्फुटमेकत्र विषये शब्दार्थालङ्कतिद्वयम् । व्यवस्थितं च.
(का० १४१, पू० )
एकस्मिन्नेव स्पष्टतया यदुभावपि शब्दार्थालङ्कारौ व्यवस्थां संपादयतः सोऽप्यपरः । यथा -
स्पष्टोल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारविन्दम् ।
श्लिष्टाष्टदिग्दलकलापमुखावतारे बद्धान्धकारमधुपावलि संचुकोच ॥
For Private & Personal Use Only
www.jainelibrary.org