________________
वामनवणा
दशम उल्लास विभिनवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रलैः पुनयंत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः॥ .. सूर्यस्य रथ्या अश्वाः गरुडाग्रजेन अरुणेन विभिन्नो भेदं प्रापितो वर्णो रूपं येषाम् । परितः स्फुरन्त्या रुचा रत्नैः खां रुचं रथ्या आनिन्यिरे नीताः । कीदृशैः रत्नैः । वंशकरीसनीलैः वंशकलिकावन्नीलवर्णरित्यर्थः । मतद्गुणालद्वारमाह -
तद्रूपाननुहारश्चेदस्य तत् स्यादतद्गुणः। (का० १३८, पू०), • तस्याप्रकृतस्याननुहारोऽग्रहणम् । उदा०
- गाङ्गमम्बु सितमम्बुजा(या)मुनं कजलाभमुभयत्र मजतः। ।
राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥ गाङ्गं गङ्गासम्बन्धि जलम् , यामुनं यमुनासम्बन्धि जलम् , सैव प्राचीना, न चीयो वर्द्धते, न चापचीयते नश्यतीत्यर्थः ।
___ सैषा संसृष्टिरेतेषां भेदेन यदिह स्थितिः॥ (का० १३९, उ०) गतेषामलकाराणां भेदेन अन्योऽन्यनिरपेक्षतया शब्दभाग एव अर्थविषय एव उभयं तत्र वा यद् व्यवस्थानं सा संसृष्टिः । तत्र शब्दालङ्कारसंसृष्टिर्यथा- 'तारतारतरै रित्यादि । - अर्थालकारसंसृष्टिर्यथा
लिम्पतीव [प० ५८.२ ] तमोऽङ्गानि वर्षतीवाञ्जनं नमः। । असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ।। पूर्वत्र परस्परनिरपेक्षौ यमकानुप्रासौ संसृष्टिं प्रयोजयतः । अत्र तु तथाविधे उपमोत्प्रेक्षे ।
शब्दालकारयोः संसृष्टिर्यथा-'हिन्दोलिकेयमिन्दोः कलिके'त्यादौ । अनुप्रासो रूपकं च संसष्टिं प्रयोजयतः।
ननु शब्दालङ्कारस्य शब्दमात्रवृत्तित्वात् अर्थालङ्कारस्य अर्थवृत्तित्वमिति कथमुभयोरेकत्र संघष्टिरिति चेत्, न । एकार्थसमवायरूपसम्बन्धेनार्थवृत्तित्वात् ।
अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सङ्करः। (का० १४०, पू.) आत्मनि आत्ममात्रेऽविश्रान्तिजुषां अङ्गाङ्गित्वं अनुग्राह्यानुग्राहकत्वं तद्रूपः सहर इत्यर्थः । इतरविजातीयसहकारेण चमत्कारकारित्वम् । एतेन संसृष्टे दो दर्शितः । यथा, आते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे
लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते । शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
राजन् ! गुञ्जाफलानां सज इति शबरा नैव हारं हरन्ति ॥ , 'सेष्टा' इति मु. पु.। २ भावणे 'सीमन्तविह्वे' इति पाठः ।
का०प्र०१३
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org