________________
काव्यप्रकाशखण्डन यथा
वेत्रत्वचातुल्यरुचां वधूनां कर्णाग्रतो, गण्डतलागतानि ।
भृङ्गाः सहेलं यदि नापतिष्यन् को वेदयिष्यन्नवचम्पकानि ॥ वधूनां कर्णाग्रतः गण्डतले आगतानि नवचम्पकानि को वेदयिष्यन् न कोऽपि, यदि सहेलं सलीलं भृङ्गा अमरा नापतिष्यन् । वधूनां कीदृशीनाम् ? वेत्रत्वचातुल्या रुचिर्यासां तास्तथा तासां इत्यर्थः । निमित्तान्तरजनितापि नानात्वप्रतीतिः प्रथमप्रतीतं अभेदेन व्युदसितुं उत्सहते । साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनं विरोधीति न्यायात् । न चैतद्रूपकं प्रथमातिशयोक्तिर्वा तयोराहार्यारोपरूपत्वात् । अन्वयस्य त्वनाहार्यत्वात् । यथा
धामधर्षि नवमैन्दवं महः प्रेक्ष्य संभ्रमवशादसाध्वसः। वीतिहोत्र इति गहिनीस्तनावाचकर्ष कलशौ धियाध्वगः ॥ विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः। एकात्मा युगपद्वृत्तिरेकस्यानेकगोचरा ॥ (का० १३५) अन्यस्तत् कुर्वतः कार्य अशक्यस्यान्यवस्तुनः।
तथैव करणं चेति विशेषत्रिविधः स्मृतः॥ (का० १३६) एकात्मा एकखभावः । तथा च एकमेव वस्तु एकेन खभावेन युगपद् अनेकेषु वर्त्तते तथैव तेनैव प्रकारेणेत्यर्थः । क्रमेणोदा० -
दिवमप्युपजा(या)तानामाकल्पमनल्पगणगुणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः॥ ते कवयः कथमिव न वन्द्याः येषां गिरो वाण्यः जगन्ति [प० ५८,१] रमयन्ति । कीदृशानाम् ? खर्ग गतानाम् । आकल्पं कल्पं व्याप्य अनल्पा बहुतरा गुणगणा येषां कवीनामित्यर्थः।
सा वसइ तुज् हिअए स चिअ अच्छीसु सा अवअणेसु । अम्हारिसाण सुंदर ओआसो णत्थि पावाणं ॥ स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजताऽनवद्यविद्यम् ।
विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च । त्वां सृजता विधिना नूतनो मनोभूः कामः ससृजे । सविता सूर्यः, बृहस्पतिर्गुरुः । त्वां कीदृशम् ? स्फुरद्विकसदद्भुतं रूपं यस्य तम् । उद्गतः प्रताप एव ज्वलनोऽमिर्यस्मात् तम् । अनवद्या निर्दोषा विद्या यस्य तं इत्यर्थः । अत्रान्यस्य करणं शाब्दम् ।
खमुत्सृज्य गुणं योगादत्युज्वलगुणस्य यत् ।
वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ (का० १३७) अत्र खगुणतिरस्कार एव खगुणत्यागः । १ 'अन्यत्प्रकुर्वतः' इति मु. पु. पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org