________________
दशम उल्लास तथा च बलपत्सजातीयग्रहणकृता ग्रहणात्मा अभिभव एव मीलितमिति मन्तव्यम् ।
मल्लिकामालधारिण्यः सर्वाङ्गीणार्द्रचन्दनाः। क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः॥ स्थाप्यतेऽपोह्यते वाऽपि यथापूर्व परस्परम् ।
विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ (का० १३१) निषिध्यते । क्रमेणोदाहरणम् -
पुराणि यस्यां सवराङ्गनानि वराङ्गनारूपपरिष्कृताङ्ग्यः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥ न तजलं यन सुचारु पङ्कजं न पङ्कजं तद्यदलीनषट्पदम् ।
न षट्पदोऽसौ न जुगुंज यः कलं न गुञ्जितं तन जहार यन्मनः॥ यस्यां नगर्या पुराणि शाखापुराणि सवराङ्गनानि सोत्तमस्त्रीकाणि । रूपेण परिष्कृतं सुन्दरं अङ्गं यासां ताः । समुन्मीलितो व्यक्तः समीचीनो विलासो यत्र तादृशं कुसुमायुधस्य कामस्य विलासा एवावं इत्यर्थः।
निषेधेऽप्युवाहरति-तज्जलं न यत् सु सुष्टु चारु मनोहरं पङ्कजं कमलं यत्र न, न लीनः षट्पदो अमरो यत्र, तत् कलं अव्यक्तमधुरम् । स्पष्टमन्यत् ।
पूर्वत्र पुराणां वराङ्गनाः, तासामङ्गविशेषणतामुखेन रूपम् , तस्य विलासाः, तेषामस्त्रम् , अमुना क्रमेण विशेषणं विधीयते । उत्तरत्र निषेधेऽप्येवमेव योज्यम् ।
____ यथानुभवमर्थस्य दृष्टे तत्सहशि स्मृतिः। (का० १३२, पू०) तत्सदृशे अर्थ सदृशे दृष्टे सति अर्थस्य पदार्थस्य यथानुभवं अनुभवप्रकारेण स्मृतिः स्मरणमित्यर्थः । यथा
निम्ननामिकुहरेषु यदम्भः प्लावितं चलदृशां लहरीभिः । तद्भधैः कुहरुतैः सुरनार्यः स्मारिताः [५० ५५.२] सुरतकण्ठर(रु)तानाम् ॥ चलदृशां निम्ननाभिविवरेषु लहरीभिर्यदम्भः प्लावितं तद्भवैः लहरीप्रादुर्भूतैः कुहरुतैः शब्दविशेषैः सुरनार्यों देवाशनाः सुरतकण्ठरुतानां सुरतकालीनकण्ठनादं स्मारिता इत्यर्थः । भ्रान्तिमान् स यदन्यस्य संवित्तत्तुल्यदर्शने ॥
(का० १३२, उ०) तदित्यन्यदित्यपाकरणिकं निर्दिश्यते । अन्यदित्यन्यस्य अन्यतया संभेदनं भ्रान्तिमानित्यर्थः । व्यधिकरणप्रकारकं ज्ञान तथा चानुभूयमानारोपस्य सामान्यालङ्कारस्यात्रैवान्तर्भावः । मु. पु. 'परं परम्' इति पाठः । मुद्रितपुस्तकेषु तु एषा पंक्तिः ईडक्पाठस्वरूपा लभ्यते- .
स्मरणम्, भ्रान्तिमान् अन्यसंवित्तत्तुल्यदर्शने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org