SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सर्गः।] कीर्तिकौमुदीमहाकाव्यम् । फलानि पुष्पाणि मनोरमाणि, यस्य द्रुमाः प्रत्यहमुद्वहन्ति । अत्यन्तभक्तेषु भवत्यवश्य, श्रिये महत्यै महतामुपास्तिः ॥ ५९॥ श्रीनेमिनाथेन जिनेश्वरेण, पवित्रिते यत्र धराधरेन्द्रे । हिंस्राः समुज्झन्ति परःसहस्राः, स्वभावसिद्धामपि वैरबुद्धिम् ॥६०॥ तं गोत्रमुख्य विधृतक्षम च, सद्वंशजातं च समुन्नतं च । श्रीवस्तुपालः कमलाढ्यकुल्यं, स्वकल्पमुधिरमारुरोह ॥६१॥ रीणान् धुरीणान् युगतो वियुज्य, जनेषु यातेषु तमदिमुच्चः । अस्थायि तेषां शकढरधस्तान्न सद्गतिः स्याद् वृषवर्जितानाम् ॥६२॥ म केवलं शैलशिरोऽधिरूढः, समानमानानधरीचकार । अधो विधातुं स विशुद्धबुद्धिः, संसारमप्यारभते स्म मन्त्री ॥६३॥ श्रीनेमिनामानममानवीयैस्तेजोभिरैभ्युज्ज्वलयन्तमाशाः । जिनेन्द्रमत्रैव जनेन्द्रमन्त्री, निदर्शनातीतमसौ ददर्श ॥६४॥ स्नात्रं स पात्रप्रतिपादितार्घस्तीर्थोदकैस्तीर्थकरस्य तस्य । कृत्वा च कृष्णागुरु-चन्दनाथैविलेपनं धौतमलानुलेपः ॥६५॥ घनैः प्रसूनैर्वसनैरनूनैः, पत्रैः पवित्रैरशनैः प्रधानैः । नृत्तैर्वधूनां च गृहीतचित्तैर्गानैः सदानैर्विततान पूजाम् ॥६६॥ युग्मम् ॥ प्रभोः सपर्यावसरेषु तस्य, कपूरेधूपैः परितः स्फुरद्भिः । तमद्रिमेकं सुरभीचकार, दिशो यशोभिः स पुनः समग्राः ॥६७॥ श्रीनेमिनाथावसथान्तरस्थे, कर्पूर-कृष्णागुरुधूपधूमे । पलायमानः कलिरेष कालस्तत्कालमासीन्मशकानुकारी ॥ ६८॥ धर्मक्रियाविस्मृतराजकार्यस्तत्रैव निन्ये स बहून्यहानि । असक्तमासक्तमभीप्सितेऽर्थे, कालातिपातं न हि वेत्ति चेतः ॥६९॥ नमन्नमन्दप्रतिभः प्रभासे, चन्द्रप्रभं चन्द्रसमानकीर्तिः । श्लाघाचलत्कन्धरमालुलोके, लोकेन सौराष्ट्रनिवासिनाऽसौ ॥ ७०॥ अभ्यर्च्य भक्त्या भवमत्र तीर्थे, श्रीसोमनाथाभिधया प्रसिद्धम् । प्रत्तप्रसूनाञ्जलिना प्रदत्तो, जलाञ्जलिस्तेन पुनर्भवाय । ॥ ७१ ॥ तेनोपनीतैर्घनसारधूपैः, स्वमङ्गमङ्गारितमीनकेतुः । शङ्के स लङ्केश्वरकन्धरास्नैश्चिराय विस्रं सुरभीचकार ॥ ७२॥ अनेन सत्यापितसद्गुरूपदेशेन तद्देशनिवासिनीनाम् । सुवासिनीनां वदनाब्जराजौ, निवेशिता स्वस्तुतिराजहंसी ॥ ७३॥ १'स्पतुल्यमु प्र. कां०॥ २ धातुं सुवि का० ॥ ३ रप्युज्ज्व' वा० कां ॥ ४ स्नानं स मु० ॥ ५.रपूरैः परि मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy