SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं . [ नवमः सर्गः। आत्मानमानतजिनेन्द्रपदारविन्दः, कृत्वा कृतार्थमयमर्थिजनं च दानैः। मन्त्री निमन्त्रितजनेन सह प्रहर्षः, पस्त्यं प्रयातुमथ तं प्रभुमापच्छे । ॥ ७४ ।। अस्य प्रभोः पितुरिव क्षणमप्यशक्तः सोढुं वियोगमहमित्यवगम्य सम्यक् । चौलुक्यचन्द्रसचिवः शुचितैकवित्ते, चित्ते निवेश्य जिननाथमथ प्रतस्थे । ॥ ७५ ॥ व्यावर्तमानमथ मानवराजमन्त्रिराजं मुदा प्रतिपथं प्रमदास्तदानीम् । पश्यन्त्यदृष्टमिव तं शतशोऽपि दृष्टं, तृप्तिर्भवेन्नहि दृशां प्रियदर्शनेषु ॥ ७६ ॥ आगत्य स्वपुरं पुरन्दरसमस्याऽनम्य पादौ प्रभोः, स क्षेमेण समेत्य चाऽऽत्मशरणं व्यापारिणामग्रणीः । देशाय प्रजिघाय सङ्घजनता सत्कृत्य तां कृत्यविनिर्विघ्नाः कृतिनां भवन्ति हि समारब्धक्रियासिद्धयः ॥ ७७॥ दूर्वा-पुष्प-फला-ऽशतैरुपचितं पात्रं दधत्यः करे, ___ यस्मै मङ्गलमङ्गनाः प्रणयिनां चक्रुस्तदा सम्मदात् । सर्वत्र स्वयशांसि बन्दिगदितान्याकर्णयन् कर्णवद् , दानोदामकराम्बुजः स जयतु श्रीवस्तुपालश्चिरम् ॥ ७८॥ ॥ इति श्रीगूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते कीर्तिकौमुदीनाम्नि महाकाव्ये यात्रासमागमनो नाम नवमः सर्गः ॥९॥ * 'विक्रमतो गिरि-गगन-स्मरशर-विधु १५०७ सङ्ख्यवत्सरे वहति । स्वपरोपकारकृतये, लिप्यकारि मुमुक्षुणा ॥१॥ श्रीमति पत्तननगरे ॥ छ ॥ छ । ** →भKK १ व्यावृत्तमा वा० ॥२ गमो ना प्र. ॥ ३ प्र० आदर्शप्रान्तभागे एषा फुल्लयन्तर्गता लेखकपुष्पिका वर्तते ॥ ४ लिखितेयं कीर्तिकौमुदी गणिना प्र० टि० ॥ ५ प्रतिलिपिविहिते नवीने कां०-आदरों मूलप्रतिप्रान्तगता निम्नोतप्रकारा पुष्पिका वर्तते-“छ । शुभं भवतु । कल्याणमस्तु । ऊशवंशे दो. सामंतसुत दो० समरासानिध्यात् सा० देवासुतया श्रा० रहीान्या श्रीकीतिकौमुदीप्रतिलेखिता आशापल्लयां विहारिता च श्रीकरी स्तात् । श्री। श्री । श्री।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy