SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं शृङ्गैरुदौर्दिवमुल्लिखन्तं, दिश: स्पृशन्तं पृथुभिश्च पादैः । तलेन धात्रीतलमाप्नुवन्तं, हरन्तमन्तःकरणानि कान्त्या ।। कचित् तटीः काञ्चनकान्तिजुष्टाः, कृचिन्नदीरुन्मदराजहंसाः । कचिद् द्रुमानार्द्रफल-प्रवालान् , क्वचिच्च धातून विविधान् दधानम् ॥ सिताम्बरं मन्त्रिवरस्तमग्रनिविष्टनिर्विष्टपयोदभङ्गया। समाधिबन्धादिव निश्चलाङ्ग, मुनीन्द्रतुल्यं तमगं ददर्श ॥ चतुर्भिः कलापकम् ।। विकासवद्भिव्रततिप्रसूनैरन्तःप्रसुप्तभ्रमरैर्यदीयाः । वनाधिदेव्यस्तमिवोपयान्तं, विलोकयन्ति स्म विलोचनाभैः ।। सरांसि राजन् ! नलिनीवनानि, वनानि वेल्लन्नवपल्लवानि ।' मुदं निदाघज्वरितस्य यंत्र, कुर्वन्ति गन्धर्ववधूजनस्य ।। स्थितस्य यस्योपसमुद्रमद्रेर्मेघावलीवेष्टितमेखलस्य । बभूव नेत्रश्रुतिनेत्रभाजा, सतीर्थ्यता मन्शमहीधरेण ॥ रत्नप्रदीपेषु गुहागृहेषु, तान्ता रतान्तावसरे सुरस्त्रीः । रेणुं किरन्तः कुमुदाकराणां, तमीसमीराः सुखयन्ति यत्र ।। अभ्रंलिहप्रस्थशिरःस्थशुभ्रपयोदसन्दोहमिषेण धर्मः । कले: खलस्य प्रसरं विलोक्य, निराकुलस्तिष्ठति यत्र दुर्गे ।। उदस्तहस्तैः करिभिर्विमुक्ता, मुक्ताफलानां श्रियमाश्रयन्तः । अम्भःकणा दिङ्मुखभूषणानि निरन्तरं यत्र तरङ्गयन्ति ।। निशासु यस्मिन्नवतंसितानां, समीपवर्ती जगतीरुहाणाम् ।। तारागणः पुष्यति पुष्पशङ्कां, मुग्धस्य सिद्धप्रमदाजनस्य । अधित्यकाधिष्ठितपानगोष्टीगीतोत्कतोत्सङ्गकुरङ्गरुद्धः । मृगीदशां राजति यत्र रात्रिकरः करप्राप्य इव क्षपासु ॥ यस्मिन् विदग्धा अपि सिद्धवध्वः, सम्भूतभूतेषु वनान्तरेषु । फलैर्विपक्काप्रमुखैः सदृक्षान् , कीरान् विरावैरुपलक्षयन्ति । न तद् वनं यत्र न कोकिलानां, नृत्यन्ति गीतैरिव नीलकण्ठाः ।। यस्मिन् गिरौ तानि सरांसि यानि, स्वेनैव शैत्येन वहन्ति कम्पम् ॥ यस्मिन् सदा स्मेरसरोजराजिविराजितासङ्ख्यसरःपरीते । आकर्णयन्तोऽपि नवाब्दशब्दान् , न मानसाय स्पृहयन्ति हंसाः ॥ दिनाधिनाथेन पुरोनिरस्तमस्तस्थिताञ्चन्द्रमसश्च बिभ्यत् । यत्कन्दराः संश्रयते तमिस्र, दत्ते हि दुःस्थस्य पदं महात्मा ॥ १ चतुभिः कुलकम् प्र० कां० ॥ २ यस्य, कु मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy