________________
सर्गः।
कीर्तिकौमुदीमहाकाव्यम् । श्रीनाभिसू नुर्पगनाभिमुख्यैः, पूजोपहारैः प्रचुरैः प्रसन्नः । मन्ये स्वभावादपि वीतरागः, स स्फीतरागः सचिवे बभूव ।। स श्वेत-पीतैर्वसनैय॑धत्त, धाम्नि प्रभोस्तस्य महापताकाम् । सरोजराजीरजसाऽनुविद्रो, जिग्ये यया सिद्धसरित्प्रवाहः ॥ धर्माय निर्मापयति स्म तस्मिन् , मन्त्री धरित्रीभृति वस्तुपालः । श्रीनेमि-पाचप्रभुहर्म्ययुग्ममयुग्मनेत्राचलशृङ्गचारु ॥ प्रासादसौन्दर्यविलोकनेन, सम्भूतभूयस्तरसम्मदानाम् । विभान्ति तत्कान्तिकरम्बितानि, कृतस्मितानीव दिशां मुखानि ॥ यदुत्तमाङ्गस्थितशतकुम्भकुम्भध्वजस्फूर्जदभीशुभिन्नाः । अल्पेऽप्यनेल्पा इव वासरान्ते, चिराद् विराजन्ति कराः खरांशोः । कथं न विश्वैककुटुम्बकोऽसौ ?, यस्त्यक्तभेदं घटयाञ्चकार । यन्मण्डपे चण्डपपौत्रपौत्रः, स्वपूर्वजानां सुहृदां च मूर्तीः ।। स्वस्यानुजस्यापि च मूर्तियुग्मं, तुरङ्गयुग्मस्थमचीकरद् यः । मनीषिणां मुख्यतमोऽपि मन्ये, वृषस्थमात्मानमयं न वेत्ति ॥ शैलोपकण्ठेऽयमकुण्ठबुद्धिः, सरः सरस्वत्सदृशं चकार । उष्णेऽपि नोष्णानि भवन्ति यस्य, वारीणि रीगाध्वगजीवितानि ॥ द्विवागि तत्रैव दिनानि नीत्वा, क्रीत्वाऽर्थदानैः सुकृतं यशश्च । कथञ्चिदापृच्छय तमीशमाद्य, माद्यन्नसौ रैवतकं जगाम ॥
तमुज्जयन्तापरसंज्ञमद्रिमाज्ञाविधेयाखिलसङ्घलोकः । स विश्वमुच्चैरमृतेन सिञ्चन्नुपागमन्नव्य इवाम्बुवाहः ।। तुरङ्गमागां चरणाग्रवातैरुद्भूतधूलीपटलच्छलेन । तस्य प्रयाणे प्रणयिप्रियस्य, नगोऽनुगच्छन्निव स व्यराजत् ।।
नरो न रोगापदमाप कोऽपि, न कापि यानव्यसनं बभूव । कस्याप्यभूत् तत्सुकृतप्रभावान वस्तुनो हानिरहानि तानि ।। सुखेन सार्थः पथि यात्रिकाणां, सिन्धूरगाधा अपि तास्ततार । संसारनामानमपारमब्धि, स तु स्वयं लवयितुं प्रवृत्तः ।। मनागनालोकितदुर्निमित्त:, पदे पदे प्राज्यतृगोदकाढ्यः । अहिंस्रीवैश्च बभूव तस्य, मार्गः सुदुर्गोऽपि किलानुकूलः ।। तीर्थैः समप्रैरुपचर्यमाणं, सिद्धैरनेकैरुपरुध्यमानम् ।
रत्नैर्नन्तैरुपचीयमानं, भूतैः प्रभूतैरुपजीव्यमानम् ।। १ ल्पा अपि वा मु० ॥ २ णयप्रिं वा० ॥ ३ स्य, जनोऽनु' कां० ॥ ४ तु ,समर्थः प्र. ॥ ५ षस्व ब वा० मु०॥
४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org