SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ] · सुकृतसंकीर्त्तनमहाकाव्यम् । भामण्डलप्रतिनिधिर्विदधे जिनेन्दो - र्यस्तेन तत्र मणि - काञ्चनपृष्ठपट्टः । तक्ान्तिभिर्निदलितेषु तमस्सु चैत्ये, दीपा जयन्ति यदि पूजनमङ्गलाय ॥ यच्छातकुम्भमय तोरण कुम्भजातं, तत्राधरीकृतरविच्छवि तेन तेने । तेनायमद्रिपतिरुग्रतरप्रभावः, सम्भाव्यतेऽप्यहरहर्वलदोषधीशः ॥ यद्यम्बरे सुरगुरोरिव मे व्याधास्यद्, वेधाः स्थितिं तदहमत्र मुहुर्निरीक्ष्य । अभ्रंलिहाद्विपतिमूर्धनि कीर्तनौघ-मेतेन कारितमसङ्ख्यमवर्णयिष्यम् ॥ श्रीपादलिप्त पुरसीन सरः स चक्रे, यस्यातिरेकमधुरे लुठतीव तीरे । नित्यं नितान्तमधुरीभवितुं सुधाभुग्-भोग्यः सुधारुचिरपि प्रतिमामिषेण ॥ एष स्फुरद्गुरु मुनिप्रसरा मिहैव, स्वर्दण्डदर्शनपरां वसतिं वितेने । २९ ३० यस्यां यशःसितरुचिर्विशदः स कोऽपि, जज्ञेऽस्य यत्र विधुरेव बभूव चिह्नम् ॥ २७ तत्र प्रपेयमपि तेन नवा वितेने, यां प्राप्य शीत-मधुरोज्ज्वलहारिवारिम् । पीयूष कुण्डहिमधामजमेव गर्व - सर्वस्वमन्यजगतर्जगती बभञ्ज ॥ माधुर्यधुर्यमतुलामृतकुण्डवृन्द - स्यन्दानुविद्धमिव यत्र जलं रराज | - ग्रामेऽर्कपालितकनामनि तेन तेने, पातालमूलगतखातगुरुस्तडागः । श्रीस्तम्भनाख्यपुरतीर्थपतिं विधाप्य, शत्रुञ्जयाचलजिनं च स उज्जयन्ते । द्वेधोत्थितैर्दिवि यशोभिरदादपूर्वं द्वैराज्यदुःखममृतांशु - नभः श्रवन्त्योः ॥ स स्तम्भनाभिधपुरेऽद्भुतमुदधार, श्रीपार्श्ववेश्म किमपि स्मितवैभवं तत् । यत्रागतौ नवकृतप्रतिमाछलेन, कौतूहलाद् विमल- रैवतकाद्रिदेवौ ॥ तेन प्रपाद्वयमिहाधटि पार्श्वपार्श्व-स्थित्यैव तादृशगुणप्रगुणं किलैतत् । छायामनोज्ञममृताभजलं बिभेद, तापं बहिःस्थमबहिःस्थमपि प्रजायाः ॥ श्रीवैद्यनाथसदनात् किल मालवेशो, दर्भावती भुवि जहार सुवर्णकुम्भान् । श्रीकेलिवेश्म सचिवस्तु स वस्तुपाल- स्तस्मिन् दधौ दिनपतिप्रतिमत्विषस्तान् ॥ ३३ चक्रेऽर्बुदाख्यगिरिमूर्ध्नि निजाग्रजन्म - श्रीमल्लदेवसुकृताय स मल्लिदेवम् । तद्देहदीधितिभिरञ्जनमञ्जुलाभि लक्ष्मायितं भृशममुष्य यशः शशाङ्के ॥ शक्तः क्व वक्तुमहमल्पमतिर्बहूनि, श्रीवस्तुपाल सचिवेश्वरकीर्तनानि ? | यत्सङ्ख्यया दिवि विधिर्व्यधितोडुबिन्दून्, शीतांशुना खटिकयैव फलानि दातुम् ॥ ३५ ईदृग्मन्त्रिकिरीटकीर्तनघटासङ्घट्यमानैर्मुहुः, ३२ कीर्तीनां निवहैरहम्प्रथमिकावष्टम्भसंरम्भिभिः । सन्मानाधिकवर्धनव्यसनिभिर्मन्ये विभिन्नं नभः, स्वर्दण्डच्छललक्ष्यमाणविशदप्रस्फोटरेखास्पदम् ।। Jain Education International For Private & Personal Use Only २३ २४ २५ २६ २८ ३१ ३४ ૨૬' १३५ www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy