SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ * १३६ किञ्च श्रीमदरिसिंहविरचितं Jain Education International विश्राम्यन्तु भुजङ्गराज - रजनीजीवेश-राजीविनीजीवातु-स्तनयित्नवो ! नवनरप्रीत्या भवन्तश्विरम् | उत्तम्भं भुजया यशोभिरमलं दीप्रं प्रतापैर्द्विष द्वापैः सिक्तमिदं तनोतु भुवनं श्रीवस्तुपालः सदा ॥ विश्वं न स्यादनीदृग् निखिलमपि कदाऽप्येष लोकप्रवादः, कल्पे कल्पे ततस्त्वं मदयसि विदुषो लब्धपुण्यावतारः । कल्पद्रुः कामधेनुस्त्रिदशमणिरपि श्रीवसन्त । श्रवन्ती भूयाम्भोधिं गतानामिति भवति भवद्दानवारां विवर्त्तः ॥ स्फूर्जत्फेनावलिवलयितोत्तालकल्लोलमाला लीलालोलज्जलधिवलयव्याजतो वस्तुपाल ! । क्रीडन्त्येता रणभुवि भवत्कीर्तयः स्तम्भतीर्थ प्रान्ते प्रीतिस्तबकितरसाः शङ्खदुष्कीर्त्तयश्च ॥ विश्वेऽस्मिन्नरिसिंहकोविदकृतप्रौढप्रबन्धाद्भुत श्रीमन्त्री श्वरवस्तुपालयशसी पीयूषपूरोपमे । ते हर्षवशादशेषविबुधैरास्वादनीये मिथ: सङ्क्रान्त्या क्षणलब्धसिद्धिविभवे यावज्जगन्नन्दताम् ॥ ४. प्रतिसर्गं प्रबन्वेऽस्मिन्नरि सिंहविनिर्मिते । इमान्यकृत चत्वारि काव्यान्यमरपण्डितः ॥ ५ ॥ इति सुकृतसंकीर्त्तननाम्नि महाकाव्ये सकलकीर्त्तनकीर्त्तनो नामैकादशः सर्गः ॥ ११ ॥ [ द्विती For Private & Personal Use Only ३ www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy