________________
ક
श्रीमदरिसिंहविरचितं
१२
उच्चैःपदं निजयशोभरसोदरस्य, तक्रस्य तेनं विदधे यदशौ भीत्या तत्र स्थितं तदनुवासरमात्मभासा, विक्रेयवस्तुषु हसत्युपरिप्रतिष्ठम् ॥ अत्रैव साधुकृतयेऽद्भुतपुण्यलक्ष्मी-नेत्रोपमं वसतियुग्ममसौ चकार । यत्र प्रतिक्षणमहोत्सवहेतुभूता, भ्रूविभ्रमं वहति वन्दनमालिकैव ॥ आरोहवैभवभृतं तरुणीमिवासौ, कुम्भस्तनीमुभयपक्षगवाक्षनेत्राम् । तेने प्रपामपिं रसप्रसरप्रशस्यां वीक्ष्यैव यामयति मङ्क्षु न निर्वृतिं कः ? || तेन व्यधाथि धवलककपत्तनश्री लीलाकुशेशयभिवाऽऽदिजिनेन्दुचैत्यम् । मुक्त्वाऽपि वल्लभजनाननपङ्कजानि यत् पीयते जनविलोचनचञ्चरीकैः ॥ अत्रापि तेन वसतिद्वितयं मुनीनां, हेतोरकारि सुकृतामृतपानपात्रम् । यस्माद् द्विधा प्रसृमरः शुचिकीर्तिपूरो, विश्वश्रियः श्रयति विस्तृतहारशोभाम् ॥ या कीर्तिरस्य समभूदिह राणकाख्य- भट्टारकालयसमुद्वरणेन विश्वे । तस्या भुजङ्गमजगद्गमनाय मार्ग, वापीमिषादयमिहैव कृती वितेने || सा काsपि कोमलयशोऽङ्गजवर्धनाय, धात्रीव तेन रचितेयमिह प्रपाऽपि । या पूरयेत तृषितेषु तदात्वजात - मन्येषु केषु न पयः कलशस्तनोत्थम् ॥ शत्रुञ्जयाद्रिमुकुटस्य पुरो जिनस्य, तेनेन्द्रमण्डपमिदं तदकारि किञ्चित् । अप्येकवारमधिगम्य जना यदन्त-जन्मान्तरेऽपि न भजन्ति कदाऽपि तापम् ॥ अत्र व्यधापयदयं नवमुज्जयन्त-श्रीस्तम्भनाधिपजिनाधिपचैत्ययुग्मम् । तत्केतुकैतवकरद्वितयेन कीर्ती, रम्येन्द्रमण्डप शिरोभुवि नृत्यतीव ॥ लक्ष्मीर्मयाऽवलगिता जगदेकभर्तु भक्त्या ततोऽवलगयेयमिमां च देवीम् । वाग्मूर्तिमत्र रचयन्निति स स्वमेक-माकल्पमीशमपिं वाग्मिनमप्यशंसत् ॥ मूर्तीर्विधाप्य निजपूर्वज पूरुषाणां, तेनात्र नित्यरुचिपद्मनिभैस्तदास्यैः । या प्रीणिता रजनिमीलनशील पद्म- दुःस्था किमेनमपि मुञ्चति साऽपि लक्ष्मीः १ ॥ १८ मूर्तित्रयं हरिकरिस्थमपूरि तेजः - पालस्य वीरधवलस्य तथाऽऽत्मनोऽसौ । सन्नद्धमुद्धुरकलिप्रलयाय मूर्त- मग्र्यं युगत्रयमिवात्र पवित्रदेशे ॥
चत्वार्ययं चतुरधीरवलोकनाऽम्बा-प्रद्युम्न - शाम्बा शिखराण्यवतार्य तत्र । तज्जन्मकीर्तिनिवहस्य चतुर्मुखत्वाद्, धातुः श्रियं निदधतोऽपि बभूव धाता ॥ आलोक्य वीक्षितपुरातनभूपभक्त्या, चैत्यश्रिया जिनपतेस्तमतीवभक्तम् । अन्तश्चमत्कृततया शिरसीव क्लृप्तौ, पाणी तदीयकृत तोरणकैतवेन ॥ श्रीसुतं भृगुपुरादयमत्र मन्त्री, वीरं च सत्यपुरतः पुरतोऽवतार्य । सदा विहितदीपमनोहराभ्यां, लोकद्वयीमपि मुदा विशदीचकार ॥
Jain Education International
For Private & Personal Use Only
[ द्वितीय
•
१०
११
१३
१४
१५
१६
१७
१९
२०
२१
२२
www.jainelibrary.org