SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । •सुकृतसंकीर्तनमहाकाव्यम् । किश्व तात ! ख्यातगिरः सुता मम हता ही कालिदासादयो, नन्वेकस्तु चिरायुरस्तु जगति श्रीवस्तुपालोऽधुना ॥ मार्कण्डः स्फुटमाशिषा शमवतामल्पायुरप्येष यत् , कल्पायुर्जयतीति वाग्निगदने धाताऽस्तु जातादरः ।। श्रीवस्तुपाल ! भवदीययशोऽङ्गजस्य, शश्वन्नभोऽङ्गणविहारमनोहरस्य ! सारङ्गसङ्गतकरस्तरवारिधारि-रक्षाभटश्रियमुरीकुरुते सितांशुः ॥ सिन्धुराजविजयोज्ज्वलं यशो, वस्तुपाल ! तव चन्द्रवद् दिवि । यत्र दुःखपीलीमलीमस, सिन्धुराजमुखमेव लाञ्छनम् ॥ यत् कवेर्लवणसिंहजन्मनः, काव्यमेतदमृतोददीर्धिका । वस्तुपालनवकीर्तिकन्यया, धन्यया किमपि यत्र खेलितम् ॥ प्रतिसर्ग प्रबन्धेऽस्मि-भरिसिंहविनिर्मिते । इमान्यकृत चत्वारि, काव्यान्यमरपण्डितः॥ ५ ॥ इति सुकृतसङ्कीर्तननाम्नि महाकाव्ये पुरप्रवेशो नाम दशमः सर्गः ॥१०॥ १ २ आसाद्य वीरधवलाधिपतिप्रदत्त-श्रीस्तम्भतीर्थनगरप्रभुतामथासौ। कीर्तीः क्षितौ तनुमतीरिव कीर्तनानि, कर्तुं समारभत मन्त्रिशिरोऽवतंसः ॥ पश्चासराहमणहिल्लपुरीपुरन्ध्री-सीमन्तरत्नमिव पार्श्वजिनेशवेश्म । उद्धृत्य येन यशसा जनितो जरत्या, हस्तावलम्बनविधिर्वनराजकीर्तेः ॥ श्रीस्तम्भतीर्थनगरे रचयाञ्चकार, भीमेशवेश्मनि च काञ्चनकेतु-कुम्भौ । मूर्तेव कीर्तिरनिशं वरवैजयन्ती, नर्नति यत्र दिवि देवनदीं जयन्ती॥ उत्तानपट्टमज(त)निष्ट पुरश्च भट्टा-दित्यस्य मूर्धनि च काञ्चनशेखरं सः । तत्रैव दूरतरतापयशःप्रताप-कारस्करद्वितयसम्भवबीजभूते ॥ भट्टार्कपूजनवने वहकाभिधाने, कूपं व्यधापयदसौ क्षितिनाभिरूपम् । दूर्वाङ्कुरप्रकरकर्बुरिताङ्गकुल्या मार्गापदेशमिलितासितरोमराजिः ॥ अग्रेऽपि तत्र पकुलाभिधचण्डभानो-रुच्चैः सुधामधुरमण्डपकैतवेन । स्पष्टीकृतोऽयममुना प्रभवत्प्रभावो, भूमौ चमत्कृतिकृते स्वयशःशशाङ्कः ॥ श्रीमानखण्डपदमण्डपमत्र मन्त्री, श्रीवैद्यनाथशिवसझ यदेष चक्रे । रोगव्ययाय कृतिनां दधदोषधीश, तत्रावतारमकृत स्वयमेव देवः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy