________________
पृ० १०. पं० ३. ]
टिप्पणानि
१४१
निष्टेः, तदस्य विसंवादोग्यवस्तुनिर्भासात् चन्द्रादित्रस्तु निर्भासादविसंवादोऽपीत्येकस्यैव ज्ञानस्य यत्राविसंवादः तत्र प्रमाणता इतरत्र तदाभासतेति ।" [ सन्मति ० टी० पृ० ५९५ ]
पृ० ८. पं० १८. 'सर्वतः संहृत्य ' - धर्मकीर्तिना उक्तं यत् - शान्तचेतस्कतया चक्षुषा यत् रूपदर्शनं भवति तन्निर्विकल्पकम् । तस्मिंश्च रूपस्वलक्षणं क्षणिक परमाण्वात्मकं प्रतिभाति । तथाहि - "संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते सा - 5 क्षजा मतिः || ” [ प्रमाणवा० ३।१२४ ] ग्रन्थकृता तत्प्रतिविद्दितम् - यत् तदवस्थायामपि सविकल्पकमेव ज्ञानं स्थिरस्थूलाद्यर्थग्राह्यनुभूयते ।
।
तुलना - " संहृत्य सर्वतश्चित्तं स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपं स्त्रं च स्पष्ट व्यवस्यति ॥" [ तत्त्वार्थश्लो० पृ० १८६ ]
पृ० ८. पं० १६. 'न पुनरसाधारणैकान्तम् ' - तुलना - “ नहि जातुचिदसहाय- 10 माकारं पश्यामो यथा व्यावर्ण्यते तथैवानिर्णयात् । नानावयवरूपाद्यात्मनो घटादेः बहिः सम्प्रतिपत्तेः न परमाणुसंचयरूपस्य ।" [ सिद्धिवि० पृ०३६B. ]
पृ० ८ पं० २०. 'प्रतिसंहार' - " प्रतिसंहारः पुनर्विकल्पप्रवृत्तिः " [ न्यायकुमु० लि० पृ० २७० A. ]
पृ० ६. पं० १. 'प्रतिसंविदितो' - तुलना - " नहि संवित्तेः बहुबहुविधप्रभृत्या - 15 कृतयः स्वयमसंविदिता एव उदयन्ते प्रत्ययन्ते वा यतः सत्योऽपि अनुपलक्षिताः स्युः कल्पनावत् ।” [ सिद्धिवि० टी० पृ० ९८ B. ]
पृ० ६. पं० ३. 'सदृशापरापरो - "तां पुनरनित्यतां पश्यन्नपि मन्दबुद्धि: नाध्यवस्यति, सत्तोपलम्भेन सर्वदा तद्भावशंकाविप्रलब्धः सदृशापरोत्पत्तिविप्रलब्धो वा ।” [ प्रमाणवार्तिकालं० लि० पु० २३७ ]
20
पृ० ६. पं० २१. 'अभ्रान्त' - अभ्रान्तं विशेषणं बौद्धापेक्षया "कल्पनापोढमभ्रान्तं प्रत्यक्षम् । " [ न्यायवि० ११४ ] इत्यभिधानात् । अव्यभिचारीति विशेषणं नैयायिकापेक्षया ज्ञेयम् "इन्द्रियार्थसन्निकर्षोत्पन्नमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं ज्ञानं प्रत्यक्षम् ।" [ न्यायसू० १|१| ४ ] इत्युक्तत्वात् ।
पृ० ६. पं० २३. 'नहि दृष्टेऽनुपप' - तुलना - " स्वभावेऽध्यक्षतः सिद्धे परैः 25 पर्यनुयुज्यते । तत्रोत्तरमिदं वाच्यं न दृष्टेऽनुपपन्नता ।" [ प्रमाणवार्त्तिकालं० लि० पृ० ६८ ]
पृ० ६. पं० २४. 'वक्त्रभिप्रायेऽपि ' - तुलना - "विवक्षाप्रभवं वाक्यं स्वार्थे न प्रतिबध्यते, यतः कथं तत्सूचितेन लिंगेन तत्त्वव्यवस्थितिः । वक्त्रभिप्रायमात्रं वाक्यं सूचयन्तीति विशेषेणाक्षिपन् न पारम्पर्येणापि तत्त्वं प्रतिपद्येत । नच वक्त्रभिप्रायमेकान्तेन सूचयन्ति श्रुतिदुष्टादेः अन्यत एव प्रसिद्धेः । " [ सिद्धिवि० पृ० २६४ ]
पृ० ६. पं० २६. 'सत्येतरव्यवस्था का' - तुलना - " वाक्यानामविशेषेण वक्त्रभिप्रेतवाचिनाम् । सत्यानृतव्यवस्था न तत्त्वमिध्यार्थदर्शनात् ॥ मिथ्यादर्शनज्ञानात् मिथ्या र्थत्वं गिरां मतम् । ” [ सिद्धिवि० पृ० ५०२ ]
"
पृ० १०. पं० ३. 'वक्तुरभिप्रेतं' - " वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ॥ वक्तुर्व्यापारो विवक्षा तस्य विषयो योऽर्थः समारोपित बहीरूपो ज्ञानाकारः प्रकाशते बुद्धौ विवक्षात्मिकायां तत्र शब्दस्य प्रामाण्यं लिङ्गत्वम्
Jain Education International
For Private & Personal Use Only
30
35
www.jainelibrary.org