________________
१४२
लघीयस्त्रयस्य
[पृ० १० पं० २३शब्दादुञ्चरिताद्विवक्षितार्थप्रतिभासी विकल्पोऽनुमीयत इत्यर्थः ।" [प्रमाणवा० मनोरथ० पृ० ४ ] "यद्यथा वाचकत्वेन वक्तभिर्विनियम्यते । अनपेक्षितबाह्यार्थं तत्तथा वाचकं मतम् ।।" [ प्रमाणवा० १।६७ ] “परमार्थकतानत्वे शब्दानामनिबन्धना । न स्यात्प्रवृत्तिरर्थेषु समयान्तरभेदिषु ॥
अतीताजातयोऽपि न च स्यादनृतार्थता। वाचः कस्याश्चिदित्येषा बौद्धार्थविषया मता ॥" 5 [प्रमाणवा० १।२०९-१० ] “विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र.वा । तद्भावादर्थसिद्धी तु
सर्व सर्वस्य सिद्धयति ।।" [ प्रमाणवा० २।१६ ] "यथोक्तम्-वक्तरभिप्रायं सूचयेयुः शब्दाः ।" [तर्कभा० मो० पृ० ४]
इति प्रमाणप्रवेशः प्रथमः ॥
पृ० १०. पं० २३. 'भेदाभेदात्मके'-"तथा चाहाकलङ्कः-भेदाभेदा यतोऽपेक्षा10 नपेक्षाभ्यां .." [ आव० नि० मलय० पृ० ३७० B. ] गुरुतत्त्ववि० पृ० १६ B.
__ पृ० १०. पं० २४. 'अपेक्षाऽनपेक्षा'-"निरपेक्षत्वं प्रत्यनीकधर्मस्य निराकृतिः सापेक्षत्वमुपेक्षा ।” [ अष्टश०, अष्टसह० पृ० २९० ]
पृ० १. पं० २४. 'नयदुर्नयाः'-"निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेर्थकृत्।" [आप्तमी० श्लो०१०८] "तम्हा सव्वे विणया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोएणणि15 स्सिा उण हवंति सम्मत्तसब्भावा ॥" [ सन्मति० १२१ ] "नयाः सापेक्षा दुर्नया निरपेक्षा
लोकतोऽपि सिद्धाः" [ सिद्धिवि० पृ० ५३७ B.] "तथा चोक्तम्-अर्थस्यानेकरूपस्य धीः प्रमाणं तदंशधीः । नयो धर्मान्तरापेक्षी दु यस्तन्निराकृतिः ।।" [अष्टश०, अष्टसह० पृ० २९०] "धर्मान्तरादानोपेक्षाहानिलक्षणत्वात् प्रमाणनयदुर्नयानां प्रकारान्तरासंभवाञ्च, प्रमाणात्तद
तत्स्वभावप्रतिपत्तेः तत्प्रतिपत्तेः तदन्यनिराकृतेश्च ।" [ अष्टश०, अष्टसह० पृ० २९० ] "सदेव 20 सत् स्यात्सदिति विधार्थो मीयेत दुर्नोतिनयप्रमाणैः।" [ अन्ययोगव्य ० श्लो० २८ ]
_पृ० १०. पं० २५. 'उत्पादव्यय'-"उप्पन्ने वा विगए वा धुवे वा” [ स्थानांग स्था० १०] "सव्वं वा" [ व्या० प्र० श० ८ उ० ९ सत्पदद्वार ] "सद्रव्यलक्षणम, उत्पादव्ययध्रौव्ययुक्तं सत्" [तत्त्वार्थसू० ५।२९,३०] “दव्वं जयविउयं दव्वविउत्ता य पज्जवा णस्थि ।
उप्पायट्ठिइभंगा हंदि दवियलक्खणं एयं ॥" [ सन्मति० गा० १३१२ ] "नोत्पादस्थितिभंगाना25 मभावे स्यान्मतित्रयम् ।" [ मी० श्लो० पृ० ६१९] "उत्पादस्थितिभंगानां स्वभावादनुबन्धिता । तद्धेतूनामसामोत् अतस्तत्त्वं त्रयात्मकम् ॥" [ सिद्धिवि० पृ०१६७]
__ पृ० १०. पं० २५. 'द्रव्यपर्याया'-"द्रव्यं हि नित्यमाकृतिरनित्या । कथं ज्ञायेत ? एवं हि दृश्यते लोके मृत् कयाचिद् आकृत्या युक्तः पिण्डो भवति । पिण्डाकृतिमुपमृद्य घटिकाः
क्रियन्ते । घटिकाकृतिमुपमृद्य कुण्डिकाः क्रियन्ते । तथा सुवर्ण कयाचिदाकृत्या युक्तः पिण्डो 30 भवति । पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते । रुचकाकृतिमुपमृद्य कटकाः क्रियन्ते । कटकाकृ
तिमुपमृद्य स्वस्तिकाः क्रियन्ते पुनरावृत्तः सुवर्णपिण्डः पुनरपरया आकृत्या युक्तः खदिराङ्गारसदृशे कुण्डले भवतः । आकृतिरन्या चान्या च भवति द्रव्यं पुनस्तदेव । आकृत्युपमर्दैन द्रव्यमेवावशिष्यते ।" [ पात० महाभा० १११।१] योगभा० ३।१३।
पृ० १०. पं० २६ 'नयो'-"नयाः कारकाः साधका निवर्तका निर्भासका उप35 लम्भका व्यञ्जका इत्यनान्तरम् । जीवादीन पदार्थान् नयन्ति प्राप्नुवन्ति कारयन्ति साध
यन्ति निवर्तयन्ति निर्भासयन्ति उपलम्भयन्ति व्यञ्जयन्तीति नयाः ।" [ तत्वार्थाधि० भा० २३५] "सधर्मणैव साध्यस्य साधादविरोधतः । स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org