________________
१४०
लघीयस्त्रयस्य
[पृ० ७. पं० २३तुलना-“साधर्म्यमिव वैधयं मानमेवं प्रसज्यते ।” [न्यायकुसु० ३।९] “सादृश्यं चेत् प्रमेयं स्यात् वैलक्षण्यं न किं तथा ।" [जैनतर्कवा० पृ० ७६ ]
समुद्धृतेयम्-स्या० रत्ना० पृ० ४९८ । रत्नाकराव० ३।४ । प्रमेयरत्नमा० ३५ । प्रमाणमी० पृ० ३५।
पृ० ७.पं० २३. 'इदमल्पं-तुलना-“एकविषाणी खड्गः सप्तपर्णो विषमच्छदः इत्याहितसंस्काराणां पुनस्तत्प्रत्यक्षदर्शिनामभिज्ञानं किन्नाम प्रमाणं स्यात् । तथा रुयादिलक्षणश्रवणात् तथादर्शिनः समभिज्ञानम् , संख्यादिप्रतिपत्तिश्च पूर्वापरनिरीक्षणात् , पश्यतां च नामयोजना उपमानवत् सर्वं प्रमाणान्तरम् ।” [ सिद्धिवि० पृ० १५० B.] परीक्षामु० ३।५
१०। प्रमाणनय० ३।५, ६ । प्रमाणमी० ११२।४। 10 उद्धृतेयम्- स्या० रत्ना० पृ० ४९८ । प्रमेयरत्नमा० ३।५ । प्रमाणमी० पृ० ३५ ।
पृ० ७. पं० २६. 'अर्थापत्तिः'-"अर्थापत्तिरपि दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यर्थंकल्पना । यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पना ।" [ शाबरभा० ११११५ ] मी० श्लो० अर्था० श्लो० १।
पृ०८.पं० १. 'परोक्षेऽन्तर्भावात'-तुलना-“अनुमानोपमानागमार्थापत्तिसंभवा15 भावान्यपि च प्रमाणानीति केचित् मन्यन्ते तत्कथमेतदिति ? अत्रोच्यते-सर्वाण्येतानि मति
श्रुतयोरन्तर्भूतानि इन्द्रियार्थसन्निकर्षनिमित्तत्वात् ।" [तत्त्वार्थाधि० भा० १११२] "उपमानार्थापत्त्यादीनामत्रैवान्तर्भावात्., [ सर्वार्थसि० १११ ] " अर्थापत्त्यादेरनुमानव्यतिरेकेऽपि परोक्षेऽन्तर्भावात् ।” [अष्टश०, अष्टसह० पृ० २८१]
इति प्रमाणप्रवेशे तृतीयः परिच्छेदः ॥
-
-
20 पृ०८.पं०६. 'यद्यथैवाविसंवादि' तुलना-“यथा यत्र विशदं तथा तत्र प्रत्यक्षम्।
यथा यत्राविसंवादः तथा तत्र प्रमाणता । (पृ० ६५ B.) तथा च सर्वं स्वभावे परभावे वा कथञ्चिदेव प्रमाणं न सर्वथा ।" [सिद्धिवि० पृ० ८६ A.] “यथा यत्राविसंवादः तथा तत्र प्रमाणना।' [तत्त्वार्थश्लो० पृ० १७०] सिद्धिवि० टी० पृ० ६९ B. “यथा यत्राविसंवादस्तथा
तत्र प्रमाणतेत्यकलंकदेवैरप्युक्तत्वात् ।” [अष्टसह० पृ० १६३] “यद्यथैवाविसंवादि प्रमाणं तत्तथा 25 मतम् । विसंवाद्यप्रमाणं च तदध्यक्षपरोक्षयोः ।।" [ सन्मति० टी० पृ० ५९५ ]
पृ०८.पं० १०. 'तिमिराद्युपप्लव'-तुलना-“येनाकारेण तत्त्वपरिच्छेदः तदपेक्षया प्रामाण्यमिति । तेन प्रत्यक्षतदाभासयोरपि प्रायशः संकीर्णप्रामाण्येतरस्थितिरुन्नेतव्या, प्रसिद्धानुपहतेन्द्रियदृष्टेरपि चन्द्राकादिषु देशप्रत्यासत्त्याद्यभूताकारावभासनात् , तथोपहताक्षादेरपि
संख्यादिविसंवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् । तत्प्रकर्षापेक्षया व्यपदेशव्यवस्था गन्ध30 द्रव्यादिवत् ।” [ अष्टश०, अष्टसह० पृ० २७७ ] "अनुपप्लुतदृष्टीनां चन्द्रादिपरिवेदनम् ।
तत्संख्यादिषु संवादि न प्रत्यासन्नतादिषु ।।" [तत्त्वार्थश्लो० पृ० १७०] “तिमिराद्युपलवज्ञानं चन्द्रादावविसंवादकत्वात् प्रमाणं तत्संख्यादौ तदेव विसंवादकत्वादप्रमाणं प्रमाणेतरव्यवस्थायास्तल्लक्षणत्वात् । यतो ज्ञानं यदप्यनुकरोति तत्र न प्रमाणमेव समारोपव्यवच्छेदापेक्षत्वात् । अन्यथा दृष्टे प्रमाणान्तरवृत्तिर्न स्यात् कृतस्य करणायोगात् तदेकान्तहानेः कथञ्चित्करणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org