________________
10
१२६
प्रमाणसमहे कारि० ७८-८० व्यवत् । जात्यन्तरकल्पनायां च तद्विधिप्रतिषेधात्मकत्वम् , तदतदुभयानुभयविकल्पने प्रत्येकमपि चक्रकम् , सर्वनयाभासप्रतिपादख्यातिसंख्येयत्वेऽपि वर्णानुपूर्वीभेदानों तद्विशेषवस्तुविकल्पानन्त्यम् ।।
अन्योन्यनिरपेक्षाणामप्रमाणप्रमेयता। 5 ८८. सकलकलाकलापमया सत्ता परस्परविधिप्रतिषेधपरमार्था सूक्ष्मस्थूलसंस्थानादिभेदमूर्तिवत् प्रमाणप्रमेयैकान्तप्रभेदपरिहारेण परस्परपरिग्रहपरिणामसिद्धिरिति ।
द्रव्यपर्याययोर्भेदमेकान्तेन प्रपश्चयन् ॥७८॥ नैगमः सप्तधा शास्ति हि भावानां व्यवस्थितिम् । सर्वमेकं सतो [s] भेदादिभिर्मिथ्यार्थसङ्ग्रहः ॥७९॥ स प्रत्यस्तमिताशेषद्रव्यपर्यायभेदतः। आत्मादिभेदमाश्रित्य व्यवहारं प्रतिक्षिपेत् ॥४०॥ पर्यायाद् व्यतिरेकाणामन्वयप्रतिपत्तितः । अक्रम स च भेदानां ऋजुसूत्रो विधारयन् ॥८॥ कार्यकारणसन्तानसमुदायविकल्पतः। शब्दो लिङ्गादिभेदेन वस्तुभेदं समुद्दिशन् ।।८२॥ अभिरूढस्तु पर्यायैरित्थम्भूतः क्रिता (या) श्रयः । द्रव्यपर्यायसामान्यविशेषप्रविकल्पतः ॥८॥ नयद्वयविभागेन नैगमादिरनेकधा ।
मतिश्रुतादौ भेदानां स्वपरप्रतिवेदिनाम् ॥८४॥ 20 कल्पना चार्थसम्बन्धेनान्वेति नयलक्षणम् ।
प्रमाणनयनिक्षेपैरात्मादिप्रविभागतः ॥८५।। सम्प्रेक्षे नितरा [रां] सिद्धं तत्त्वज्ञानमनन्तरम् ।
॥ इति प्रमाणसङ्ग्रहे अष्टमः प्रस्तावः ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org