________________
10
कारि० ७६-७७.] ८. अष्टमः प्रस्तावः
१२५ सेन व्यापारयति द्रव्यपर्यायनयद्यप्रविभागे प्रमाणप्रमेयभेदेषु परस्परं प्रतिक्षेपैकातपरिग्रहः । स्वहेतोरेव निवृत्तस्य कार्यतोऽनुपकारे कारणस्य पारतन्त्र्यानुपपतिः, अर्थ एव ज्ञानं गमयेत् सन्निधाने तथानिर्भासनात् । संवादनिरपेक्षस प्रामाण्यासिद्धेः।
प्रत्यक्षं सर्वविज्ञानं स्वरूपस्य स्वतो गतेः। ६८४. अर्थाधिगमस्य तादात्मा (त्म्य ) मनात्मविदोऽन्यत्र प्रामाण्याविशे-5 षात् । परस्यार्थविदः तुल्यः प्रसङ्गोऽनवस्था च । स्वविषयनिर्भासाविवेकेन कचिदस्पष्टं प्रमाणसामग्रीविशेषतः प्रमाणान्तरव्यवस्था मा भूत् । विषयव्यवधानेऽपि सन्निकर्षाऽविशेषः सुखादिवत् । तदतद्रूपज्ञानं तद्विषयतानुपपत्तेः सकलनिष्क [ल] स्वविकल्पितेतरस्वभावनियमः । साक्षात् सा (स्वा) कारमर्पयतः तत्प्रतिपक्षेऽतिप्रसङ्गः।
__ परोक्षपरतन्त्राणां स्पष्टाकारविवेकतः ॥७॥
८५ यथास्वं विभ्रमविवेकविकलं तदपरिस्फुटं प्रतिसंवेदनेऽपि भेदानामवग्रहादेः परतो निश्चयं क्वचिदवगृहीते संशयादेरभावः समीहितेऽप्यनधिगमे निणेयस्य विगते वाऽवधारणाभावे न स्मृतेः इत्यकिश्चित्करारेक ( का ) विपर्यासपराक्रमः । परिणामपाटवातिशये संवादशक्तेः सदा विभ्रमेण तथाभावस्यापि कुतश्चिदकमाद्राहिणामाकासाऽनिवृत्तिः।
15 प्रक्रमार्थाविशेषेण श्रुतौ भेद [:] परिस्फुटः। ६८६. क्वचिद् यथाश्रुतमवगृह्णाति, पुनः समीहमानो निर्णीतिं स्मृतिबीजमाधत्ते वा स्वभावोपलम्भोपयोगसंस्कारविशेषः, संहृतविषयसाद्या हि समुपलक्षितविशेषसङ्ख्यानेऽपि शब्दः प्रत्ययः संशयादिवत् । अभिलापानपेक्षो मतिविकल्पः सन्निहितविषयावयहसमीहावायधारणासमानानुसरणसंकलनपरामर्शाभावे तन्नामविकल्पविकलतया 20 वर्णपदवाक्यानुपूर्वीवत् वर्णावयवानुस्मरणविकल्पे तदाख्याकल्पनायामनिष्टानुषङ्गः । समक्षसजातीयसम्बन्धानुस्मरणचिन्ताप्रकर्षेण तद्विशेषामिनिबोधः तदभिधानमपि •सभिवेशयेत् । साक्षादनुभवात्मनः रमृत्यादेरभ्यासविशेषे पाटवोपपत्तेः । दूरदूरतरादिभेदेन स्वतोऽथ प्रति संयोगसमवायतदनुदयमनुभवस्वभावनिर्णये परापेक्षः कथमर्थ निष्ठापयेत् । सकलनियमग्रहेऽविकलसामग्रीजन्मनां सर्वथा विषयत्वं प्रतिबिम्बोदयवत् । तथा परिणतेरन्यथा प्रतिभाससम्भबे बुद्धेरपरत्र न कश्चिद्विरोधः ।
आत्मज्ञानादिभेदानामानन्त्यं नयचक्रतः ॥७७॥ ८७. द्रव्यपर्यायभेदे तद्भाव उत्पादविगमध्रौव्यविरहे वर्णव्यतिरेकवद् । उभयकल्पनायामुभयदोषः, अनुभयवद् अन्योन्यविधिप्रतिषेधलक्षणानुगमे प्रमाणप्रमेयव्यवहारनिवृत्तिः अनवस्था। सर्वथाऽवक्तव्यकल्पनायां सर्वदोषप्रसङ्गः सर्वथा वक्त- 30
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org