________________
१२२
प्रमाणसमहे
[कारि० ६८-७३. तथा संसारस्थितेरेवानुमानात्मभूताविशेषेऽपि प्रज्ञादिगुणनियमवत् वरमागमात् प्रवृत्ती प्रत्यक्षाद्यविरुद्धात् प्रवृत्तिरिति ।
सम्यग्ज्ञानाङ्कुशः सत्यः पुरुषार्थाभिधायकः। अहेतुरन्यहे (?) क्यार्थपरिनिष्ठितचेतसाम् ॥६८॥ अदृष्टदोषशङ्कायामन्यत्रापि प्रसह्यते।। अहं ममाश्रवो बन्धः संवरो निर्जरा क्षयः ॥६९।। कर्मणामिति संव्या (सत्कृत्य) प्रेक्षाकारी समीहते । कृपा स्वपरसन्तानस्थानसंहारकारणम् ॥ ७० ॥ अचेतः करुणात्यन्तमन्यदुःखमजानतः। कूटस्थस्य सतः साक्षाददृश्यानुभवात्मनः ॥७॥ सुखादि विषयः शब्दाद्यविशेषोवि (षधि) योन्यतः। गुणयोगवियोगाभ्यां संसारपरिनिर्वृती ॥७२॥ सम्प्लवः सर्वभावानां शास्त्रं दृष्टेष्टबाधितम् ।
॥[इति प्रमाणसङ्ग्रहे सप्तमः प्रस्तावः॥
15
८. अष्टमः प्रस्तावः। द्रव्यपर्यायसामान्यविधानप्रतिषेधतः ॥७३॥ सहक्रमविवक्षायां सप्तभङ्गी तदात्मनि ।
७८. सामान्यविशेषात्मके वस्तुनि स्वपरभावानुगमव्यावृत्तिवत् परापरस्वभावानुगमपरावृत्तिप्रसङ्गेन तत्त्वमवकिरन् कथमविचार्यः १ तदाऽनानैकत्वं कारकज्ञा20 पकव्यवस्था [प] कत्वम् । विभ्रमे विभ्रमः । स्वाभिलाप्यानभिलाप्यत्वम् अभिलाप्यानभिलाप्यबहुवत्त्वात् । प्रतिभासभेदेऽपि मतिश्रुतयोः अन्वयव्यतिरेकार्थविषयत्वं शब्दार्थग्रहणं प्रत्यभिज्ञानादेरात्मनो विशेषे प्रत्यक्षवत्तदभावः, अन्यथा सन्तानान्तरखत्तस्य इतरथा भावः। तदेकार्थाविषयत्वं धर्मभेदेऽपि तदविशेषात् । स्वभावाभेदे
जात्यन्तरं स्यात् । तत्र अर्थभेदाऽभेदौ सदसन्तौ व्यतिरेकेण निरामयत्वात् । वृत्ति25 विकल्पविरोधे सम्बन्धोपकाराधनवस्थादोषैः स एव सर्वथाऽखण्डिताकारस्य प्रत्यक्षवत् शब्दबुद्धावप्रतिभासने तदभेदाभावमवधारयन् वा तत्प्रत्यक्षप्रतिभासभेदनिदर्श नेन तद्विषयावि (घि) गमविकलविकल्पेन तत्प्रतिपत्तिविप्रतिषेधेन ध्रुवत्वापरिणामिनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org