________________
१२३
कारि० ७३.]
८. अष्टमः प्रस्तावः विविधधर्माध्यासविकल्पविषयताऽविरोधेन प्रमाणानुसारेण लोकोऽयं स्वयमेव विलोपयन्तं व्यवस्थापयेत् ।।
७६. स्वतः सतां सामान्यविशेषाणाम् असताश्च द्रव्यगुणकर्मणां स्वभावभेदं प्रकल्पा (ल्प्य) प्रयोजनसामर्थ्यसम्बन्धिनियमव्यतिरेकेण परिणामिनः कथञ्चित् सदसदसन (दन) भिलापतद्योगविकल्पविधानतः प्रकृति क्रमयेत् । स्वभावान्तरग्रहत्यागतः। क्रमयोगपद्यविवक्षायामभिलापाऽनभिलापौ, तदुपाधिभेदेन जात्यन्तरस्य तथा प्रतिपादने सम्बन्धो ग्रहणनियमासम्भवः । सङ्ग्रहव्यवहारर्जुसूत्रार्थन[य] संश्रयात् सामान्येन तत्त्वप्रत्यवस्थितोऽभेदोकानप (भेदैकान्तप) रिग्रहः सर्वविशेषाणां सत्ताविशेषात् , सदेव प्रत्यक्षं सर्वतो व्यावृत्तस्य बुद्धावप्रतिभासने कालादिविशेषस्य विकल्पविषयत्वम् । नहि कालादयः प्रत्यक्षाः, तेषामविशेषे परापरभावासिद्धः,उपाध्यन्तरकल्पनायाम् अनवस्था- 10 ऽप्रतीतिरित्यतिरेके नीलादयो न स्युः। एकत्रानेकधर्मानुपपत्तेः । समुदायस्य परस्परपरिग्रहाव्यवधानानुपपत्तिर्नार्थान्तरवृत्तेः, निर्व्यापारे चेतनादिविकल्पे संहृताविकल्पावस्थायां सन्मात्रानिवृत्तेरिति कारकज्ञापकव्यवस्थाविलोपे क्षणिक वक्षिं (१) वादःस्यात् । सदसत्प्राप्तित्यागेतरविकल्पविशेषेण तदतत्प्रवृत्तिसङ्करः। विभ्रमेतरविवेकस्य प्रमाणेतरभेदनिष्ठाता (ष्ठता) दृशः सकलतत्त्वप्रतिष्ठापने स्वपरभेदव्यवहारपरिग्रहः । स्वलक्षणम् 15 आत्मानं यदि परैर्मिश्रयति सर्वथा परत्वम् । अनेकधर्मसम्बन्धेऽप्येकत्वहानिरनानैकत्वं अतो [s] न्वयो भावलक्षणं परिकल्पितपरार्थान्वयवत् । क्वचित् सामर्थ्यासिद्धिभेदेषु नैरन्तर्यादिव्यतिरेके [s] निष्ठा कार्यस्य सूक्ष्मस्यादर्शने न कार्यदर्शनं स्थूलादिप्रतिपत्तिः।
___ १८०. इमे नैरन्तर्येऽपि व्यावृत्तिस्वभावा भावाः शक्तिप्रतिभासादिभेदे, ते शुद्धाशुद्धद्रव्यपर्यायपरिग्रहविभागतोऽर्थनयाः। सर्वे सर्वेषामर्थरूपत्वे समयात् परतः स्मृतिः। 20 न वै शब्दमर्थ प्रतिपादयति । सत्यप्रतिपत्तेः स्वभावोपलम्भेऽपि समयस्मरणभावे भावात् तदनुस्मरणेऽपि लिङ्गवत् प्रतिबन्धासिद्धिः। स्मरणहेतुरर्थोऽपि लिप्यादिवत वस्तुदर्शने नाम संस्काराभिव्यक्तेः समाने विज्ञातेतरस्वभावे निमित्तनैमित्तिकभावेऽप्यविचारे वा न कश्चिद्विशेषः । सङ्केतस्मरणकरणनियमाभावे अर्थोऽथेम् अविनाभाविनं गमयेत् । सदसद्विषयविवेकिनो अर्थक्रियां प्रति सरणेऽप्यविशेषः। प्रयत्नतो 25 विशेषेषु समयावृत्तिरसमितविशेषाधिगमे अतिप्रसङ्ग इत्यवाच्यता शब्दपर्यायतःतत्तत्त्वं सदृशापरदर्शने हि शब्दपर्यायोऽर्थः, स्वभावानन्वयात् श्रवणग्रहणयोग्यताव्यावृत्तिः, यदि नार्थपर्यायः तत्स्वभावनिवृत्तिः उपलम्भविषयस्य पूर्वापरकोव्योरसम्भवः, तत्तद्रव्यान्तरकारकधर्मो यं यं नियमेन ताल्वादयः तादृशं सन्निधापयेयुःप्रदीपादिवत् । सर्वत्र सर्वस्य सर्वदा व्यक्तिः सन्निधानो ( ना) विशेषेण प्रतिनियतवृत्तीनां प्रकाशनियमा-30 भावः । सर्वत्रोपादानसम्भवेऽपि कारणानां प्रत्यर्थव्यापारभेदः । तदयमर्थः अनादिर्न
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org