________________
१
10
कारि० ४५८-४६५]
३. प्रवचनप्रस्तावः [$ ५३०. प्रमाणप्रसिद्धत्वादेव अनेकान्ते संशयादिदोषप्रसङ्गोऽपि प्रेक्षावतां नावतरतीत्याह-]
अनेकलक्षणार्थस्य प्रसिद्धस्याभिधानतः ॥४५८॥ संशयादिप्रसङ्गः किं स्याद्वादेऽमूढचेतसः । साकल्येनेह सामान्यविशेषपरिणामधीः ॥४५९॥
मिथ्यैकान्तप्रवादेभ्यो विदुषो विनिवर्तयेत् । [$ ५३१. कथं पुनः शासनत्वाविशेषेऽपि शासनान्तरपरिहारेण भगवदर्हच्छासनस्यैव प्रामाण्यमित्यारेकायां तथा तदर्शयन्नाह-]
आप्तवादः स एवायं यत्रार्थाः समवायिनः ॥४६०॥
प्रमाणमविसंवादात्, [s ५३२. कथं पुनः दृष्टागमविरोधविकलतया प्रमाणमप्यनेकान्तवाद:..."सकलवेदिन एवेति निश्चयः ? कथं वा यथोक्तगुणोपपन्नोऽपि कचिन्मिथ्यावचनानामप्रणेता इत्येव निर्णयः ? बीतरागाणामपि सरागवच्चेष्टासंभवादेतदेव दर्शयति-]
प्रणेता यदि शङ्कयते । [ ५३३. प्रथमशङ्कायामुत्तरमाह-]
आत्मा योऽस्य प्रवक्ताऽयमपरालीढसत्पथः ॥४६॥
नात्यक्षं यदि जानाति नोपदेष्टुं प्रवर्तते । [६५३४. द्वितीयशङ्कायामप्याह-]
परीक्षाक्षमवाक्यार्थपरिनिष्ठितचेतसाम् ॥४६२॥
अदृष्टदोषाशङ्कायामन्यत्रापि प्रसज्यते । [५३५. ततः स्वसंवेदनं प्रमाणयता प्रवचनमपि प्रमाणमभ्युपगन्तव्यम् अविशेषात् । एतदेवाह-]
प्रत्यक्षागमयोरिष्टं प्रामाण्यं गुणदोषयोः ॥४६॥
उपलब्ध्यनुपलब्धिभ्यां कचिद् वृत्तसमत्वतः। [१५३६. तदेवं प्रवचनस्य प्रामाण्ये यत्सिद्धं तदर्शयन्नाह-]
तथा साक्षात्कृताशेषशास्त्रार्थोऽक्षानपेक्षणात् ॥४६४॥
सवृत्तकेवलज्ञानः सर्वज्ञः सम्प्रतीयते । [$ ५३७. सकलावरणपरिक्षयाविर्भूतमपि कथं तदशेषविषयमिति चेदत्राह-]
ज्ञस्यावरणविच्छेदे ज्ञेयं किमवशिष्यते ? ॥४६५॥
15
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org