SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चये [कारि० ४५१-४५७. [8 ५२०. तञ्च [प्रवचनं] स्वविषये सप्तभङ्गया प्रवर्त्तते इति, तद्विनिश्चयं कुर्ववाह-] द्रव्यपर्यायसामान्यविशेषप्रविभागतः ॥४५१॥ __ स्याद्विधिप्रतिषेधाभ्यां सप्तभङ्गी प्रवर्तते। [९५२१. तत्र प्रथमद्वितीयौ तद्भावाभावयोः प्रत्येकं प्रतिपित्सायाम् , तृतीयस्तु तदुभय5 जिज्ञासायाम् । तदेवाह-] तदतद्वस्तुभेदेन वाचोवृत्तेस्तथोभयम् ॥४५२॥ [ ५२२. चतुर्थस्तु युगपत्तत्प्रतिपित्सायां वचनप्रवृत्तेरसंभवात्तदाह-] तदतद्वागवृत्तेश्च, [६५२३. पञ्चमादिभङ्गत्रयं तु प्रथमादेः प्रत्येकं जिज्ञासया चतुर्थेन सम्मीलनात्तदेव 10 निवेदयति-] - सह तद्वागवृत्तिना। [$ ५२४. तर्हि किमर्थोऽयं स्यादेवकारप्रयोगः विनापि तेन भङ्गविकल्पानामुपपत्तेरिति चेदुच्यते-] प्रयोगविरहे जातु पदस्यार्थः प्रतीयते ॥४५३॥ स हि शब्दार्थतत्त्वज्ञैस्तस्येति व्यपदिश्यते । [$ ५२५. किं स्यात्कारादेः प्रतीतार्थस्य प्रयोगेन इति चेन्नायमुपालम्भो लोक (के) प्रतीतार्थानामपि प्रयोगप्रतीतेरिदमेवाह-] अहमस्मीति वाक्यादौ सिद्धावन्यतरस्थितेः ॥४५४॥ उभयोक्तिवदत्रोक्तो उपालम्भो विरुद्धयते । 20 [६५२६. प्रकारान्तरेणापि स विरुद्ध्यते इति दर्शयति-] यदि केचित् प्रवक्तारो वृत्तिवाक्यार्थयोरपि ॥४५५॥ सूत्रेष्वेव तयोरुक्तो त्रैलोक्यं किन्न वर्तते ? । [8 ५२७. तर्हि स्यात्कारादिप्रयोगोऽपि सफल एव तद्विषये मन्दमतीनां भावादेतदेवाह-] केवलं प्रतिपत्तारः स्थाद्वादे जडवृत्तयः ॥४५६॥ [$ ५२८. परत्रापि जडवृत्तय इति दर्शयति-] जातितद्वदपोहादिवादश्च न हि जानते। [$ ५२१. के तर्हि स्याद्वादमनुरुन्धन्ते यदि सौगतादयो जडवृत्तय इति चेदत्राह-] सर्वथैकान्तविश्लेषतत्त्वमार्गव्यवस्थिताः॥४५७॥ व्याख्यातारो विवक्षातः स्याद्वादमनुरुन्धते । 15 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy