________________
कारि० ४४२-४५०]
३. प्रवचनप्रस्तावः रागादयः सजातीयपरिणामाभिवृद्धयः ॥४४२॥
सूचयन्ति हि कर्माणि खहेतुप्रकृतीनि च । [$ ५११. साम्प्रतं 'तत्त्वज्ञान' इत्यादिना उक्तमपि कर्मनिर्जरणं विनेयजिघृक्षया स्पष्टमभिघित्सुराह-]
सात्मीभावाद्विपक्षस्य सतो दोषस्य सङ्खये ॥४४३॥ 5
कश्लेिषः, प्रवृत्तानां निवृत्तिः फलदायिनाम् । [६ ५१२. कुतः पुनः विपक्षस्य सात्मीभावः ? इत्याह-]
प्रतिपक्षस्थिरीभावः प्रायः संस्कारपाटवात् ॥४४४॥ [६५१३. के पुनस्ते दोषाः येषां तद्भावनाविपक्षभावेनोपेक्षिप्यते इति चेदत्राह-] निर्हासातिशयौ येषां तत्प्रकर्षापकर्षयोः।
10 ६५१४. तन्न तस्य [नैरात्म्यस्य ] भावना, तत्संभवेऽपि न किञ्चित्फलमित्यावेदयति-]
यद्यप्यनात्मविज्ञानभावनासंभवस्ततः॥४४५॥
न निरोधो निरोधे वा न प्रयोजनमीक्ष्यते । [९५१५. तन्न सौगतकल्पितो मोक्षः, तदभावान्न तन्मार्गत्वम् । अनात्मविज्ञानाभियोगस्य नैरात्म्यज्ञानस्य मिथ्यात्वाच्च न तदभ्यासस्य मार्गत्वमित्यादर्शयति-]
हेयोपादेयतत्त्वार्थविपरीतव्यवस्थितेः ॥४४६॥
मिथ्याज्ञानमनात्मज्ञं मैत्र्यादिप्रतिरोधतः। [६५१६. साम्प्रतं खमते प्रमोदादेविषयभावादिना विधानमुपपन्नमिति दर्शयन्नाह-]
तत्त्वार्थदर्शनज्ञानचारित्रेषु महीयसाम् ॥४४७॥
आत्मीयेषु प्रमोदादिरत एव विधीयते। [$ ५१७. न चैवमवस्थितस्यापि सुगतस्य कचिन्मैत्र्यादिकं संभवतीत्याह-]
यस्तावत्करुणावत्त्वात्तिष्ठत्येव हि चेतसाम् ॥४४८॥
सन्तानः स परोच्छेदान्न समत्वं प्रपद्यते। [$ ५१८. तन्न उच्छेदात्मा मोक्षः संभवति । कस्तर्हि कर्त्तव्य इत्याह-]
तस्मान्निरास्रवीभावः संसारान्मोक्ष उच्यते ॥४४९॥ 25
सन्तानस्यात्मनो वेति शब्दमात्रं तु भिद्यते । [६ ५१९. एकान्तनित्यत्वेन (त्वे) विनश्वरैकान्तवनिर्वाणस्यैवाभावप्रसङ्गादेतदेवाह-]
नित्यस्येच्छा प्रधानादियोगोऽनित्यः किमात्मनः ॥४५०॥ मिथ्याज्ञानादनिर्मोक्षः तथाऽनेकान्तविद्विषाम् ।
15.
20
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org