________________
८८
न्यायविनिश्चये
[कारि० ४३३-४४१ क्रमेणोचार्यमाणेषु ध्वनिभागेषु केषुचित् ।
न वर्णपदवाक्याख्या विकारेष्वेव संभवात् ॥४३३॥ [$ ५०४. खमते तु तत्संभवं दर्शयन्गाह-]
शब्दभागाः स्वहेतुभ्यः समानोन्नयहेतवः ।
सकलाग्रहणात्तेषां युक्ता हि श्रोत्रगोचराः ॥४३४॥ [ ५०५. तथाच पुद्गलपर्यायः शब्दः शरीरावयवसम्बन्धेनोपलभ्यमानत्वात् शीतातपादिवत् एतदेव दर्शयन्नाह-]
परिणामविशेषा हि भावानां भावशक्तयः।
ध्वनयस्तत्समर्थानामभावादतिरेकिणाम् ॥४३५॥ 10 [१५०६. साम्प्रतं प्रकरणार्थमुपसंहृत्य दर्शयन्नादितः शब्दानामपौरुषेयत्वे दोषमावेदयति-]
वाचामपौरुषेयीणामाविर्भावो न युज्यते । [$ ५०७. पौरुषेयस्यापि वाचकत्वममि (त्वमनभि) मतस्यापि किन्न स्यादिति चेदत्राह-]
सम्यग्ज्ञानाङ्कुशः सत्यः पुरुषार्थाभिधायकः ॥४३६॥ 15
अत्रापौरुषेयत्वं जातु सिद्धमनर्थकम् ।। [६५०८. किं पुनस्तत्सत्यम् यदभिधायित्वेन शब्दः सत्य उच्यते इत्यत्राह-]
सर्वार्थानामनेकात्मपरिणामौ व्यवस्थितौ ॥४३७॥
मार्गस्तद्विषयश्चेति मतं सत्यं चतुर्विधम् ।
[$ ५०९. जीवादीनाञ्च मार्गविषयत्वप्रतिपादनमपरिज्ञाततद्रूपस्य प्रेक्षावतो मोक्षार्थायाः 20 प्रवृत्तेरनुपपत्ते: अत एवाह-]
अहं ममास्रवो बन्धः संवरो निर्जरा क्षयः ॥४३८॥ कर्मणामिति सत्कृत्य प्रेक्षाकारी समीक्षते । तत्त्वज्ञानप्रभावेण तपः संवरणं नृणाम् ॥४३९॥
तपसश्च प्रभावेण निर्जीर्णं कर्म जायते । 25
रागद्वेषी विहायैव गुणदोषवतोस्तयोः ॥४४०॥ मोक्षज्ञानात् प्रवर्तन्ते मुनयः समबुद्धयः। सज्ज्ञानपरिणामात्मतत्त्वसम्प्रतिपत्तितः ॥४४१॥
पीतदोषावाकारो विपरीतग्रहक्षयः।
[६५१०. कर्मपुद्गल श्लेषोऽपि जीवस्य अपरमोहादिपूर्वकः तत्त्वात् धत्तूरादिरसोपश्लेषवत् 30 इति सिद्ध आश्रवो बन्धश्च, तदुपश्लेषस्य बन्धत्वात् , तद्धेतोश्च मोहादेराश्रवत्वात् । एतदेवाह-]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org