________________
कारि० ४२६-४३२] ३. प्रवचनप्रस्तावः
८७ [४१५. यदि चायं निर्बन्धः तथाभूतयाऽपि प्रत्यभिज्ञया प्रतिक्षेपान्नित्यः शब्द एवेति । तत्राह-]
यदि चैवंविधो नित्यो नित्यास्ते विद्युदादयः।
प्रत्यभिज्ञाऽप्रमाणं स्याद् युगपद्भिन्नदेशयोः॥४२६॥ [$ ४६६. भवतु ततस्तत्राप्यभेदप्रतिपत्तिरिति चेदत्राह-]
सर्वार्थानामनादित्वे स विशेषो निराश्रयः।
योऽन्यथासम्भवी शब्दघटाद्याख्योऽवभासते ॥४२७॥ [$ ४९७. तदुच्चारणस्य पारार्थ्यान्यथानुपपत्त्या नित्य एव शब्दः इति चेदुत्तरमाह-]
स वर्णपदवाक्यानां कालदेशादिभेदिनाम् ।
सदृशानां प्रबन्धोऽयं सर्वेषां न विरुध्यते ॥४२८॥ 10 [$ ४६८. कथं पुनरसति नित्यत्वे शब्दस्य प्रामाण्य मिति चेत् ; क एवमाह-तस्य प्रामाण्यमिति, सम्यग्ज्ञानस्यैव तत्त्वात् । शब्दस्य तु तत्त्वं तत्कारणत्वेन उपचारात् । न च तद्धेतुत्वमपि नित्यत्वात् , अपि तु तदर्थवेदिपुरुषपूर्वकत्वात् , एतदेव दर्शयन्नाह-]
वाचः प्रमाणपूर्वायाः प्रामाण्यं वस्तुसिद्धये ।
स्वतः सामर्थ्यविश्लेषात् सङ्केतं हि प्रतीक्षते ॥४२९॥ 16 [ ४२१. तदेवमनेकधा समयप्रतिपत्तिसंभवेनोपपन्नं तत्प्रतीक्षयैवार्थि(वार्थ)प्रत्यायकत्वं वचनस्य । तदनेकत्वमेव दर्शयन्नाह-]
स पुनर्बहुधा लोकव्यवहारस्य दर्शनात् ।
शब्दार्थयोर्विकल्पेन सन्निवेशोऽनुवर्तते ॥४३०॥ [५००. यदि पुनः शब्दस्य वस्तुनि स्वत एव योग्यत्वं को दोषो येन सङ्केतस्तत्रा- 20 पेक्ष्यते ? इति चेदुच्यते-तत्सर्वविषयं नियतविषयं वा ? पूर्वविकल्पे ततो युगपत्सर्वार्थप्रतीति. प्रसङ्गात् , तथा च न ततो नियतविषयप्रवृत्त्यादिरिति व्यवहारविलोपः । तत आह-]
न सर्वयोग्यता साध्वी सङ्केतान्नियमो यदि। [$ ५०१. द्वितीयविकल्पे दोषमाह-]
सम्बन्धनियमेऽन्यत्र समयेऽपि न वर्त्तताम् ॥४३१॥ [६५०२. कस्तर्हि तयोः सम्बन्धः ? इत्याह-]
न हि शब्दार्थसम्बन्धो यतोऽर्थः सम्प्रतीयते।।
तादृशो वाचकः शब्दः सङ्केतो यत्र वर्तते ॥४३२॥ [५०३. तन्न सौगतमते शब्दस्य संभवो वर्णस्यैव अनवस्थितो (तेः ) तत्क्रमात्मनः पदादेरप्यव्यवस्थितेः। एतदेवाह-]
25
80
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org