________________
८६
. न्यायविनिश्चये [कारि० ४१८-४२५ तदर्थदर्शिनोऽभावान्म्लेच्छादिव्यवहारवत् । [४८५. सत्यपि तदर्थाभिमुखे अनादिसम्प्रदायत्वे वेदागमस्य भवितव्यं तदर्थदर्शिना पुरुषेणेति प्रतिपादयिषुः पूर्वपक्षयति-]
अनादिसम्प्रदायश्चेदायुर्वेदादिरागमः ॥४१८॥ 5 [६ ४८६. अत्रोत्तरमाह-]
कालेनैतावताऽनाप्तः कथन्न प्रलयं गतः ?। [$ ४८७. ततो यत्सिद्धं तदाह-]
सिद्धं श्रुतेन्द्रियातीतं त्रिकालविषयं स्फुटम् ॥४१९॥
[ ४८८. तर्हि तथाविधस्य तज्ज्ञानस्य संगता ( सुगता ) दिष्वेव भावात् त एव 10 तद्वेदादेः प्रवर्तकाषैः ( काः स्युः ) इति चेदत्राह-]
तथा न क्षणिकादीनां सर्वथाप्तगुणात्ययात् । [६४८६. उपसंहरगाह-]
___ तद्विरम्य विरम्यैतद् युक्तं शास्त्रप्रवर्त्तनम् ॥४२०॥ [$ ४६०. तदेवं तस्य शास्त्रं प्रत्युपयोगमभिधाय तत्र प्रवृत्तेरर्थवत्त्वं प्रत्यभिधित्सुराह-]
तादृशोऽभावविज्ञाने शास्त्रे वृत्तिरनर्थिका। [६ ४६१. तत्र बाधकवत् साधकस्याप्यसंभवेन संशयस्यैवोपपत्तेरिति चेदत्राह-]
सन्देहेऽपि च सन्देहः ततस्तत्त्वं निरूप्यते ॥४२१॥ [ ४६२. तदेवं वेदावयवत्वेन आयुर्वेदादेः नित्यत्वे दोषमभिधाय साम्प्रतं शब्दमात्रस्य नित्यत्वे तं दर्शयन्नाह-] 20
स्वतन्त्रत्वे तु शब्दानां प्रयासोऽनर्थको भवेत् । व्यक्त्यावरणविच्छेदसंस्कारादिविरोधतः॥४२२॥ वंशादिस्वरधारायां सङ्कुलं प्रतिपत्तितः। क्रमेणासुग्रहेऽयुक्तः सकृद्ग्रहणविभ्रमः ॥४२३॥ ताल्वादिसन्निधानेन शब्दोऽयं यदि जायते।
को दोषो येन नित्यत्वं कुतश्चिदवकल्प्यते ? ॥४२४॥ [$ ४६३. भवतोऽपि तदुपादानस्य प्राग्भाविनः कुतो नोपलब्धिरिति चेदत्राह-]
उपादानस्य सूक्ष्मत्वाद्युक्तश्चानुपलम्भनम् । [$ ४६४. प्रत्यभिज्ञानात्तत्र नित्यत्वमेवोपपन्नं न भेदः, तत्प्रतिपत्तेस्तेनैव प्रतिक्षेपादिति चेदत्राह-]
सादृश्यात्, नैकरूपत्वात् स एवायमिति स्थितिः ॥४२॥ .
15
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org