________________
5
कारि० ४१२-४१७ ] ३. प्रवचनप्रस्तावः [ ४७६. कुतः पुनः प्रभोर्निरवशेषप्रपञ्चभुवनत्रयसाक्षात्करणमिति चेदत्राह-]
एवं यत्केवलज्ञानमनुमानविजृम्भितम् ।
नर्ते तदागमात् सिद्धयेत्, [ ४७७. नन्वेवम् आगमस्य तत्पूर्वकत्वं न भवेत् ततोऽपि पूर्वं तस्य भावादिति चेदत्राह-]
न च तेन विनाऽऽगमः॥४१२॥ [ ४७८. नचैवमन्योन्यसंश्रयः; हेतुहेतुमद्भावेन परमागमकेवलज्ञानसन्तानस्य बीजाङ्कुरवदनादित्वात् । एतदेव दर्शयन्नाह ]
सत्यमर्थबलादेव पुरुषातिशयो मतः।
प्रभवः पौरुषेयोऽस्य प्रबन्धोऽनादिरिष्यते ॥४१३॥ 10 [$ ४७९. ग्रहगल्यादयो हिं देशकालजातीयविकल्पेन प्राणिनां श्रेयःप्रत्यवायोपनिपातपिशुनतया प्रतीयमाना निःशेषानपि देशकालविशेषान् तन्निवासिनः त्रसस्थावराद्यनेकविकल्पान् प्राणिनः तदधिकरणानदृष्टविशेषानपि तद्धेतुफलविकल्पेन प्रत्याययन्ति, अन्यथा तत्पिशुनतया तत्प्रतिपत्तेरनुपपत्तेः । तत्कथमशेषविषयमेव ततस्तन्न सावित भवेदेतदेवाह-]
ग्रहादिगतयः सर्वाः सुखदुःखादिहेतवः।
येन साक्षात्कृतास्तेन किन्न साक्षात्कृतं जगत् ? ॥४१४॥ [४८०. साम्प्रतं परस्य निबन्धाल्लिङ्गबलोपनिबन्धनत्वे सत्यपि तस्य सूक्ष्मादिपदार्थसाक्षात्करणमवश्यम्भावीति दर्शयन्नाह-]
सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा ।
अनुमेयत्वतोऽन्यादिरिति सर्वज्ञसंस्थितिः॥४१५॥ 20 [s ४८१. भवत्येव तत्प्रसङ्गसाधनं यदि ग्रहगत्यादिक्रममनुमानतः प्रतिपद्य कश्चिदुपदिशेत्, न चैवम् , तच्छात्रस्य वेदाङ्गत्वेनापौरुषेयस्य उपदेष्टुरभावात् , एतदेवाह-]
बेवस्यापौरुषेयस्य स्वतस्तत्त्वं विवृण्वतः।
आयुर्वेदादि यद्यङ्गम् ; [s ४८२. अत्रोत्तरमाह-]
25 यत्नस्तत्र निरर्थकः ॥४१६॥ [ $ ४८३. स च पुरुषः तदर्थसाक्षात्कार्येव नापरः... तदेव दर्शयन्नाह-]
शास्त्रज्ञानं तथैव स्यात् सामग्रीगुणदोषतः। [$ ४८४. प्रयत्नसापेक्षत्वेन तत्र नित्यत्वविरोधस्याभिधानात् । तदविरोधेऽपि दूषणमाह-]
अविरोधेऽपि नित्यस्य भवेदन्धपरम्परा ॥४१७॥ 30
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org