________________
____10
कारि० ३६६-४०३]
३. प्रवचनप्रस्तावः [ ४५६. ततः प्रत्यक्षत्वादात्मदर्शनस्य न तद्विपरीतैरनुमानविकल्पैरुपपन्ना बोद्धा ( बाधा ) परिकल्पना। तदाह
निरुपद्रवभूतस्य वाधाऽयुक्ता विपर्ययैः । [$ ४६०. भवतु तर्हि संविदद्वैतमेव अविशेषवत् , यद्यद्वैते न तोषोऽस्ति मुक्त एवासि सर्वथेत्यभिधानादिति चेदत्राह-]
विच्छेदो वरमुच्छेदात् विदस्तत्पक्षपाततः॥३९६॥ [$ ४६१. तदवस्थितिश्च करुणयेति चेत्तदाह-]
यत्तावत्करुणावत्त्वात्तिष्ठत्येव हि चेतसाम् ।
सन्तानः, [$ ४६२. अत्र दूषणमाह-]
स परोच्छेदान्न समत्वं प्रपद्यते ॥३९७॥ [$ ४६३. संसारदुःखसम्बन्धः सन्तानस्याऽसतः कथम् ? मोक्षोऽपि तदसम्बन्धः । सन्तानस्यासतः कथम् ? ततः कथञ्चिदसत एवासौ तथा चेदाह-]
तथा निरास्रवीभावः संसारान्मोक्ष उच्यते ।
सन्तानस्यात्मनो वेति शब्दमात्रं तु भिद्यते ॥३९८॥ [४६४. साम्प्रतं सांख्यादिमते वेदस्य तत्प्रचिख्यासुराह-]
नित्यस्यापि सतः साक्षाददृश्यानुभवात्मनः। सुखादिर्विषयः शब्दादविशेषधियाऽन्यया ॥३९९।।
प्रदर्यः; [$ ४६५. साहसान्तरं पुनरित्यादिना निवेदयति-]
____20 पुनरस्यैव गुणयोगनिवृत्तितः । निर्वाणमाह वेदोऽयं प्रमाणमिति साहसम् ! ॥४००॥ [६४६६. समानस्यापि कर्तुः क्वचिद्विप्रलम्भसंभवे चक्षुरादावप्यनाश्वासापत्तेरेतदेवाह-]
विश्वलोकाधिकज्ञाने विप्रलम्भनशङ्किनः।
प्रामाण्यं कथमक्षादौ चञ्चले प्रमिमीमहे ? ॥४०॥ 25 [$ ४६७. तदेव त्रिभिरन्तर श्लोकैाचिख्यासुराह-]
परीक्षाक्षमवाक्यार्थपरिनिष्ठितचेतसाम् । अदृष्टदोषशङ्कायाममानं सकलं भवेत् ॥४०२॥ प्रत्यक्षागमयोरिष्टं प्रामाण्यं गुणदोषयोः। दर्शनादर्शनाध्यासात् कचिद् वृत्तसमत्वतः ॥४०॥ 30
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org