SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चये [कारि० ३८८-३६५ [$ ४५०. भवतु नाम कश्चिद्विश्वदर्शी परमवीतरागश्च सः, तत्कुतः प्रतिपत्तव्यः.... न च प्रमाणान्तरमस्ति यतस्तत्प्रतिपत्तिः । अतः कथं तस्य प्रवचनानुशासित्वेन पर्येषणं प्रेक्षावद्भिरिति चेदत्राह-] तथान्यगुणदोषेषु संशयैकान्तवादिभिः। पुरुषातिशयो ज्ञातुं यद्यशक्यः किमिष्यते ? ॥३८८॥ [$ ४५१. ततो न रागादिमति तदन्यव्यापारादिर्यतः ततः पुरुषातिशयप्रतिपत्तिरव्यभिचारिणी न भवेदेतदेवाह-] परोक्षोऽप्यविनाभावसम्बद्वैर्गुणदोषयोः । शास्त्रीनिवर्तितैः शास्त्रकारवत्सम्प्रतीयते ॥३८९॥ 10 [६४५२. सम्प्रति सर्वथैकान्तवादिनः सुगतादे: दोषवत्त्वमेव तद्व्यापारसमधिगम्यमावेदयन्नाह-] सिद्धहिंसानृतस्तेयाब्रह्मचर्यप्रवृत्तितः। स प्रत्यस्तमिताऽशेषदोषो नेति प्रतीयते ॥३९०॥ [$ ४५३. भवतु नाम सुगतस्तथाविधः तथापि किमित्याह-] 15 हेयोपादेयतत्त्वस्य सोपायस्य किलेदृशः। प्रवक्तेति धिगनात्मज्ञं तदसाध्यमसाधनम् ! ॥३९१॥ [६४५४. पुनरप्यत्रैवोपचयमाह-] सर्वथा सदुपादेयं हेयं सत्तदकारणम् । तदर्थोऽयं प्रयासश्चेत्यहो सत्यव्यवस्थितिः ! ॥३९२॥ 20 [६ ४५५. इदमेव श्लोकैः विवरीतुमाह-] करुणा स्वपरज्ञानसन्तानोच्छेदकारणम् । इति नः करुणेष्टमत्यन्तं परदुःखं न गोचरः ॥३९३॥ [४५६. इति तद्धेतुना नैव कृपा, या युक्तिमृच्छति, तदेवाह-] तत्त्वज्ञानाद्यनुत्पादहेतुरुन्मार्ग एव सः। 25 [ ४५७. केवलं चित्तसन्तानस्य अपरिशुद्धस्य सतः सामग्रीविशेषतः परो भागो विशुद्ध उत्पद्यत इति तत्राह-] मिथ्याविकल्पविज्ञानभावनापरिपाकतः॥३९४॥ तत्त्वज्ञानमुदेतीति कुतस्तत्त्वविनिश्चयः ? । [६४५८. तन्नानादिसंस्कारसंभवः तदपरिज्ञानादेस्त ( नादेतदे ) वाह-] अनादिवासना न स्यात् त्रैलोक्यमविकल्पकम् ॥३९५॥ 80 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy