SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ro 15 न्यायविनिश्चये [ कारि० ३७२-३८१ [ ४३४. स्याद्वादिमतमनवबुद्ध्य तत्रेदमुच्यमानं धर्मकीर्तर्विदूषकत्वमावेदयति-] पूर्वपक्षमविज्ञाय दूषकोऽपि विदूषकः ॥३७२॥ [$ ४३५. एतदेव प्रसिद्धन निदर्शनेन दर्शयन्नाह-] सुगतोऽपि मृगो जातो मृगोऽपि सुगतः स्मृतः । तथापि सुगतो वन्द्यो मृगः खाद्यो यथेष्यते ॥३७३॥ तथा वस्तुवलादेव भेदाभेदव्यवस्थितेः। चोदितो दधि खादेति किमुष्ट्रमभिधावति ? ॥३७४॥ [$ ४३६. सम्प्रति जात्यन्तरं दर्शयन्नाह-] अत्रैवोभयपक्षोक्तदोषारेकानवस्थितेः । 10 [४३७. पुनरपि तदन्तरमाह-] अनन्वयादिदोषोक्तेः प्रपञ्चो वाऽनया दिशा ॥३७५॥ [ ४३८, ननु यथा व्याप्यसाधादिसमा जाति यायिकेन कथ्यते तथा त्वया किन्नेति चेदत्राह-] मिथ्योत्तराणामानन्त्यात् शास्त्रे वा विस्तरोक्तितः। साधादिसमत्वेन जातिर्नेह प्रतन्यते ॥३७६॥ [$ ४३६. यथा जयेतरव्यवस्था तथा दर्शयन्नाह-] प्रकृताशेषतत्त्वार्थप्रकाशपटुवादिनः। विब्रुवाणोऽब्रुवाणो वा विपरीतो निगृह्यते ॥३७७॥ [$ ४४० तस्मादेकस्य प्रकृतसिद्धेरेव परस्य निग्रहो न प्रकारान्तरेण, तदेवाह-] असाधनाङ्गवचनमदोषोद्भावनं द्वयोः। न युक्तं निग्रहस्थानमर्थापरिसमाप्तितः ॥३७८॥ [६४४१. एतदेव दर्शयति-] वादी पराजितोऽयुक्तो वस्तुतत्त्वे व्यवस्थितः । तत्र दोषं ब्रुवाणो वा विपर्यस्तः कथं जयेत् ? ॥३७९॥ 25 [ ४४२. कः पुनसौ दृष्टान्तो यद्दोषानुद्भावनं प्रतिवादिनो निग्रहस्थानं सङ्कल्पयन्ति सौगताः ? इति चेदत्राह-] सम्बन्धो यत्र निर्जातः साध्यसाधनधर्मयोः । स दृष्टान्तः, तदाभासाः साध्यादिविकलादयः॥३८०॥ [$ ४४३. कुतः पुनरेषामनुद्भावनान्न निग्रहस्थानमिति चेदत्राह-] 30 सर्वत्रैव न दृष्टान्तोऽनन्वयेनापि साधनात् । अन्यथा सर्वभावानामसिद्धोऽयं क्षणक्षयः॥३८१॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002504
Book TitleAkalanka Granthtrayam
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherZZZ Unknown
Publication Year1969
Total Pages390
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy